उत्तङ्क उवाच 001
अभिजानामि जगतः कर्तारं त्वां जनार्दन 001a
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः 001c
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत 002a
विनिवृत्तश्च मे कोप इति विद्धि परन्तप 002c
यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्होऽहं जनार्दन 003a
द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय 003c
वैशम्पायन उवाच 004
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः 004a
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनञ्जयः 004c
स ददर्श महात्मानं विश्वरूपं महाभुजम् 005a
विस्मयं च ययौ विप्रस्तद्दृष्ट्वा रूपमैश्वरम् 005c
उत्तङ्क उवाच 006
विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशम् 006a
पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः 006c
द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम् 007a
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत 007c
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् 008a
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् 008c
वैशम्पायन उवाच 009
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय 009a
वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम् 009c
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते 010a
यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् 010c
तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय 011a
अवश्यमेतत्कर्तव्यममोघं दर्शनं मम 011c
उत्तङ्क उवाच 012
अवश्यकरणीयं वै यद्येतन्मन्यसे विभो 012a
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् 012c
वैशम्पायन उवाच 013
ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः 013a
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ 013c
ततः कदाचिद्भगवानुत्तङ्कस्तोयकाङ्क्षया 014a
तृषितः परिचक्राम मरौ सस्मार चाच्युतम् 014c
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् 015a
अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् 015c
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् 016a
तस्याधः स्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः 016c
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव 017a
एह्युत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह 017c
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम् 017e
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत 018a
चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् 018c
पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत् 019a
न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना 019c
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना 020a
श्वभिः सह महाराज तत्रैवान्तरधीयत 020c
उत्तङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः 021a
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना 021c
अथ तेनैव मार्गेण शङ्खचक्रगदाधरः 022a
आजगाम महाबाहुरुत्तङ्कश्चैनमब्रवीत् 022c
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम 023a
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो 023c
इत्युक्तवचनं धीमान्महाबुद्धिर्जनार्दनः 024a
उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् 024c
यादृशेनेह रूपेण योग्यं दातुं वृतेन वै 025a
तादृशं खलु मे दत्तं त्वं तु तन्नावबुध्यसे 025c
मया त्वदर्थमुक्तो हि वज्रपाणिः पुरन्दरः 026a
उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः 026c
स मामुवाच देवेन्द्रो न मर्त्योऽमर्त्यतां व्रजेत् 027a
अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन 027c
अमृतं देयमित्येव मयोक्तः स शचीपतिः 028a
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् 028c
यदि देयमवश्यं वै मातङ्गोऽहं महाद्युते 029a
भूत्वाऽमृतं प्रदास्यामि भार्गवाय महात्मने 029c
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै 030a
प्रदातुमेष गच्छामि भार्गवायामृतं प्रभो 030c
प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव 030e
स तथा समयं कृत्वा तेन रूपेण वासवः 031a
उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् 031c
चण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः 031e
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् 032a
तोयेप्सां तव दुर्धर्ष करिष्ये सफलामहम् 032c
येष्वहःसु तव ब्रह्मन्सलिलेच्छा भविष्यति 033a
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः 033c
रसवच्च प्रदास्यन्ति ते तोयं भृगुनन्दन 034a
उत्तङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते 034c
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह 035a
अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत 035c