उत्तङ्क उवाच 001
ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् 001a
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन 001c
वासुदेव उवाच 002
तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान् 002a
तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज 002c
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् 003a
स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः 003c
तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान् 004a
गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज 004c
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च 005a
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् 005c
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने 006a
दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् 006c
असच्च सदसच्चैव यद्विश्वं सदसतः परम् 007a
ततः परं नास्ति चैव देवदेवात्सनातनात् 007c
ओङ्कारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह 008a
यूपं सोमं तथैवेह त्रिदशाऽप्यायनं मखे 008c
होतारमपि हव्यं च विद्धि मां भृगुनन्दन 009a
अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम् 009c
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे 010a
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः 010c
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः 010e
विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम 011a
मानसं दयितं विप्र सर्वभूतदयात्मकम् 011c
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः 012a
बह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम 012c
धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च 013a
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव 013c
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः 014a
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च 014c
अधर्मे वर्तमानानां सर्वेषामहमप्युत 015a
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे 015c
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया 015e
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन 016a
तदाऽहं देववत्सर्वमाचरामि न संशयः 016c
यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन 017a
तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव 017c
नागयोनौ यदा चैव तदा वर्तामि नागवत् 018a
यक्षराक्षसयोनीश्च यथावद्विचराम्यहम् 018c
मानुष्ये वर्तमाने तु कृपणं याचिता मया 019a
न च ते जातसम्मोहा वचो गृह्णन्ति मे हितम् 019c
भयं च महदुद्दिश्य त्रासिताः कुरवो मया 020a
क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः 020c
तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा 021a
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः 021c
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम 022a
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 022c