वैशम्पायन उवाच 001
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः 001a
परिष्वज्य न्यवर्तन्त सानुयात्राः परन्तपाः 001c
पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः 002a
आ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः 002c
कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम् 003a
सञ्जहार तदा दृष्टिं कृष्णश्चाप्यपराजितः 003c
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः 004a
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु 004c
वायुर्वेगेन महता रथस्य पुरतो ववौ 005a
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् 005c
ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च 006a
दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः 006c
स प्रयातो महाबाहुः समेषु मरुधन्वसु 007a
ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम् 007c
स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः 008a
पूजितस्तेन च तदा पर्यपृच्छदनामयम् 008c
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम् 009a
उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् 009c
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् 010a
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि 010c
अभिसन्धाय तान्वीरानुपावृत्तोऽसि केशव 011a
सम्बन्धिनः सुदयितान्सततं वृष्णिपुङ्गव 011c
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः 012a
लोकेषु विहरिष्यन्ति त्वया सह परन्तप 012c
स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् 013a
कौरवेषु प्रशान्तेषु त्वया नाथेन माधव 013c
या मे सम्भावना तात त्वयि नित्यमवर्तत 014a
अपि सा सफला कृष्ण कृता ते भरतान्प्रति 014c
वासुदेव उवाच 015
कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति 015a
न चाशक्यन्त सन्धातुं तेऽधर्मरुचयो मया 015c
ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः 016a
न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा 016c
महर्षे विदितं नूनं सर्वमेतत्तवानघ 016e
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च 017a
ततो यमक्षयं जग्मुः समासाद्येतरेतरम् 017c
पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः 018a
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः 018c
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः 019a
उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने 019c
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः 020a
सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् 020c
न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः 021a
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन 021c
त्वया हि शक्तेन सता मिथ्याचारेण माधव 022a
उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः 022c
वासुदेव उवाच 023
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन 023a
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव 023c
श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै 024a
न च मां तपसाऽल्पेन शक्तोऽभिभवितुं पुमान् 024c
न च ते तपसो नाशमिच्छामि जपतां वर 025a
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः 025c
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम 026a
दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम् 026c