वैशम्पायन उवाच 001
ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम् 001a
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः 001c
तथैव चानुयात्राणि चोदयामास पाण्डवः 002a
सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम् 002c
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते 003a
आचख्युः सज्जमित्येव पार्थायामिततेजसे 003c
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ 004a
विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते 004c
रथस्थं तु महातेजा वासुदेवं धनञ्जयः 005a
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम 005c
त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह 006a
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् 006c
नाथवन्तश्च भवता पाण्डवा मधुसूदन 007a
भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् 007c
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव 008a
यथाऽहं त्वा विजानामि यथा चाहं भवन्मनाः 008c
त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन 009a
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो 009c
त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम् 010a
त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् 010c
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् 011a
हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः 011c
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः 012a
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते 012c
रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम् 013a
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ 013c
सुदीर्घेणापि कालेन न ते शक्या गुणा मया 014a
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण 014c
विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा 015a
कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात् 015c
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः 016a
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयाऽनघ 016c
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन 017a
इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया 017c
यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः 018a
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे 018c
भवता तत्कृतं कर्म येनावाप्तो जयो मया 019a
दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः 019c
कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः 020a
सैन्धवस्य च पापस्य भूरिश्रवस एव च 020c
अहं च प्रीयमाणेन त्वया देवकिनन्दन 021a
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा 021c
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् 022a
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ 022c
रुचितं हि ममैतत्ते द्वारकागमनं प्रभो 023a
अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन 023c
बलदेवं च दुर्धर्षं तथाऽन्यान्वृष्णिपुङ्गवान् 023e
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम् 024a
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम् 024c
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् 025a
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् 025c
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् 026a
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ 026c
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् 026e
गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् 027a
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा 027c
ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै 027e
ततः समेत्य राजानं धृतराष्ट्रमरिन्दमौ 028a
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् 028c
गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च 029a
भीमस्य च महात्मानौ तथा पादावगृह्णताम् 029c
क्षत्तारं चापि सम्पूज्य पृष्ट्वा कुशलमव्ययम् 030a
तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम् 030c
ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् 031a
जनार्दनं च मेधावी व्यसर्जयत वै गृहान् 031c
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् 032a
धनञ्जयगृहानेव ययौ कृष्णस्तु वीर्यवान् 032c
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः 033a
कृष्णः सुष्वाप मेधावी धनञ्जयसहायवान् 033c
प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ 034a
धर्मराजस्य भवनं जग्मतुः परमार्चितौ 034c
यत्रास्ते स सहामात्यो धर्मराजो महामनाः 034e
ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ 035a
धर्मराजानमासीनं देवराजमिवाश्विनौ 035c
तौ समासाद्य राजानं वार्ष्णेयकुरुपुङ्गवौ 036a
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै 036c
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ 037a
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः 037c
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ 038a
ब्रूत कर्ताऽस्मि सर्वं वां न चिरान्मा विचार्यताम् 038c
इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत् 039a
विनीतवदुपागम्य वाक्यं वाक्यविशारदः 039c
अयं चिरोषितो राजन्वासुदेवः प्रतापवान् 040a
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति 040c
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे 041a
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि 041c
युधिष्ठिर उवाच 042
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन 042a
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम् 042c
रोचते मे महाबाहो गमनं तव केशव 043a
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी 043c
मातुलं वसुदेवं त्वं बलदेवं च माधव 044a
पूजयेथा महाप्राज्ञ मद्वाक्येन यथाऽर्हतः 044c
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् 045a
फल्गुनं नकुलं चैव सहदेवं च माधव 045c
आनर्तानवलोक्य त्वं पितरं च महाभुज 046a
वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ 046c
स गच्छ रत्नान्यादाय विविधानि वसूनि च 047a
यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत 047c
इयं हि वसुधा सर्वा प्रसादात्तव माधव 048a
अस्मानुपगता वीर निहताश्चापि शत्रवः 048c
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे 049a
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् 049c
तवैव रत्नानि धनं च केवलं धरा च कृत्स्ना तु महाभुजाद्य वै 050a
यदस्ति चान्यद्द्रविणं गृहेषु मे त्वमेव तस्येश्वर नित्यमीश्वरः 050c
तथेत्यथोक्तः प्रतिपूजितस्तदा गदाग्रजो धर्मसुतेन वीर्यवान् 051a
पितृष्वसामभ्यवदद्यथाविधि सम्पूजितश्चाप्यगमत्प्रदक्षिणम् 051c
तया स सम्यक्प्रतिनन्दितस्तदा तथैव सर्वैर्विदुरादिभिस्ततः 052a
विनिर्ययौ नागपुराद्गदाग्रजो रथेन दिव्येन चतुर्युजा हरिः 052c
रथं सुभद्रामधिरोप्य भामिनीं युधिष्ठिरस्यानुमते जनार्दनः 053a
पितृष्वसायाश्च तथा महाभुजो विनिर्ययौ पौरजनाभिसंवृतः 053c
तमन्वगाद्वानरवर्यकेतनः ससात्यकिर्माद्रवतीसुतावपि 054a
अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः 054c
निवर्तयित्वा कुरुराष्ट्रवर्धनांस्ततः स सर्वान्विदुरं च वीर्यवान् 055a
जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिस्तदा 055c
ततो ययौ शत्रुगणप्रमर्दनः शिनिप्रवीरानुगतो जनार्दनः 056a
यथा निहत्यारिगणाञ्शतक्रतुर्दिवं तथाऽऽनर्तपुरीं प्रतापवान् 056c