ब्रह्मोवाच 001
भूतानामथ पञ्चानां यथैषामीश्वरं मनः 001a
नियमे च विसर्गे च भूतात्मा मन एव च 001c
अधिष्ठाता मनो नित्यं भूतानां महतां तथा 002a
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते 002c
इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः 003a
इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा 003c
महाभूतसमायुक्तं बुद्धिसंयमनं रथम् 004a
तमारुह्य स भूतात्मा समन्तात्परिधावति 004c
इन्द्रियग्रामसंयुक्तो मनः सारथिरेव च 005a
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः 005c
एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् 006a
स धीरः सर्वलोकेषु न मोहमधिगच्छति 006c
अव्यक्तादि विशेषान्तं त्रसस्थावरसङ्कुलम् 007a
चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम् 007c
नदीपर्वतजालैश्च सर्वतः परिभूषितम् 008a
विविधाभिस्तथाऽद्भिश्च सततं समलङ्कृतम् 008c
आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः 009a
एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित् 009c
लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च 010a
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः 010c
गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः 010e
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः 011a
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् 011c
एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः 012a
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु 012c
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा 012e
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति 013a
भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्प्रजापतिम् 013c
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः 014a
तथैव वेदानृषयस्तपसा प्रतिपेदिरे 014c
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा 015a
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः 015c
ओषधान्यगदादीनी नानाविद्याश्च सर्वशः 016a
तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् 016c
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् 017a
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् 017c
सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः 018a
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः 018c
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः 019a
यानि चान्यानि भूतानि त्रसानि स्थावराणि च 019c
तपः परायणा नित्यं सिध्यन्ते तपसा सदा 020a
तथैव तपसा देवा महाभागा दिवं गताः 020c
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः 021a
अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः 021c
ध्यानयोगेन शुद्धेन निर्ममा निरहङ्कृताः 022a
प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् 022c
ध्यानयोगादुपागम्य प्रसन्नमतयः सदा 023a
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया 023c
ध्यानयोगादुपागम्य निर्ममा निरहङ्कृताः 024a
अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम् 024c
अव्यक्तादेव सम्भूतः समयज्ञो गतः पुनः 025a
तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम् 025c
विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः 026a
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् 026c
चित्तं चित्तादुपागम्य मुनिरासीत संयतः 027a
यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम् 027c
अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम् 028a
निबोधत यथा हीदं गुणैर्लक्षणमित्युत 028c
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् 029a
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् 029c
कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः 030a
ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते 030c
कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः 031a
पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम् 031c
तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः 032a
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः 032c
अपूर्वममृतं नित्यं य एनमविचारिणम् 033a
य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम् 033c
अग्राह्योऽमृतो भवति य एभिः कारणैर्ध्रुवः 033e
अपोह्य सर्वसङ्कल्पान्संयम्याऽऽत्मानमात्मनि 034a
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते 034c
प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात् 035a
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् 035c
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः 036a
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः 036c
एषा गतिरसक्तानामेष धर्मः सनातनः 037a
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् 037c
समेन सर्वभूतेषु निःस्पृहेण निराशिषा 038a
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना 038c
एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः 039a
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ 039c
गुरुरुवाच 040
इत्युक्तास्ते तु मुनयो ब्रह्मणा गुरुणा तथा 040a
कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन् 040c
त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः 041a
सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि 041c
वासुदेव उवाच 042
इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् 042a
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् 042c
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह 043a
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति 043c
अर्जुन उवाच 044
को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन 044a
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो 044c
वासुदेव उवाच 045
अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे 045a
त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनञ्जय 045c
मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह 046a
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत 046c
ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन 047a
सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् 047c
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते 048a
मया तव महाबाहो तस्मादत्र मनः कुरु 048c
मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो 049a
तमहं द्रष्टुमिच्छामि सम्मते तव फल्गुन 049c
वैशम्पायन उवाच 050
इत्युक्तवचनं कृष्णं प्रत्युवाच धनञ्जयः 050a
गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै 050c
समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम् 051a
समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुमर्हसि 051c