ब्रह्मोवाच 001
हन्त वः सम्प्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः 001a
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् 001c
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् 002a
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् 002c
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः 003a
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः 003c
हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः 004a
लोभमोहसमायुक्तास्ते वै निरयगामिनः 004c
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः 005a
तेऽस्मिल्ँलोके प्रमोदन्ते जायमानाः पुनः पुनः 005c
कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः 006a
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः 006c
अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा 007a
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः 007c
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते 008a
विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः 008c
व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा 009a
भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम् 009c
यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते 009e
अनित्यं द्वन्द्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम् 010a
निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः 010c
समः सञ्ज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते 011a
उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत् 011c
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते 012a
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः 012c
एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः 012e
द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः 013a
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा 013c
यथा प्रदीपमादाय कश्चित्तमसि गच्छति 014a
तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः 014c
यावद्द्रव्यगुणस्तावत्प्रदीपः सम्प्रकाशते 015a
क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति 015c
व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते 016a
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः 016c
सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति 017a
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते 017c
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः 018a
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते 018c
यथाऽध्वानमपाथेयः प्रपन्नो मानवः क्वचित् 019a
क्लेशेन याति महता विनश्यत्यन्तराऽपि वा 019c
तथा कर्मसु विज्ञेयं फलं भवति वा न वा 020a
पुरुषस्याऽऽत्मनिःश्रेयः शुभाशुभनिदर्शनम् 020c
यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते 021a
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः 021c
तमेव च यथाऽध्वानं रथेनेहाऽऽशुगामिना 022a
यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः 022c
उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम् 023a
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् 023c
यावद्रथपथस्तावद्रथेन स तु गच्छति 024a
क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति 024c
एवं गच्छति मेधावी तत्त्वयोगविधानवित् 025a
समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम् 025c
यथा महार्णवं घोरमप्लवः सम्प्रगाहते 026a
बाहुभ्यामेव सम्मोहाद्वधं चर्च्छत्यसंशयम् 026c
नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया 027a
अक्लान्तः सलिलं गाहेत्क्षिप्रं सन्तरति ध्रुवम् 027c
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः 028a
व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ 028c
स्नेहात्सम्मोहमापन्नो नावि दाशो यथा तथा 029a
ममत्वेनाभिभूतः स तत्रैव परिवर्तते 029c
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् 030a
तथैव रथमारुह्य नाप्सु चर्या विधीयते 030c
एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक् 031a
यथा कर्म कृतं लोके तथा तदुपपद्यते 031c
यन्नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत् 032a
मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते 032c
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् 033a
महतः प्रधानभूतस्य गुणोऽहङ्कार एव च 033c
अहङ्कारप्रधानस्य महाभूतकृतो गुणः 034a
पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः 034c
बीजधर्मं यथाऽव्यक्तं तथैव प्रसवात्मकम् 035a
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् 035c
बीजधर्मा त्वहङ्कारः प्रसवश्च पुनः पुनः 036a
बीजप्रसवधर्माणि महाभूतानि पञ्च वै 036c
बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते 037a
विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् 037c
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते 038a
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः 038c
पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसङ्कुला 039a
सर्वभूतकरी देवी शुभाशुभनिदर्शना 039c
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः 040a
एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः 040c
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः 041a
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् 041c
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा 042a
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च 042c
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत 042e
शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः 043a
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः 043c
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा 044a
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः 044c
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते 045a
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् 045c
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा 046a
ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम् 046c
एवं द्वादशविस्तारं तेजसो रूपमुच्यते 047a
विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः 047c
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते 048a
वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः 048c
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च 049a
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः 049c
एवं द्वादशविस्तारो वायव्यो गुण उच्यते 050a
विधिवद्ब्रह्मणैः सिद्धैर्धर्मज्ञैस्तत्त्वदर्शिभिः 050c
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः 051a
तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान् 051c
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा 052a
अतः परं तु विज्ञेयो निषादो धैवतस्तथा 052c
इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान् 053a
एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः 053c
आकाशमुत्तमं भूतमहङ्कारस्ततः परम् 054a
अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः 054c
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः 055a
परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते 055c