ब्रह्मोवाच 001
केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत् 001a
केचित्पुरुषमव्यक्तं केचित्परमनामयम् 001c
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् 001e
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् 002a
आत्मानमुपसङ्गम्य सोऽमृतत्वाय कल्पते 002c
निमेषमात्रमपि चेत्संयम्याऽऽत्मानमात्मनि 003a
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् 003c
प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः 004a
दशद्वादशभिर्वाऽपि चतुर्विंशात्परं ततः 004c
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति 005a
अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते 005c
सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः 006a
अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम् 006c
न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः 006e
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् 007a
ज्ञानं त्यागोऽथ सन्न्यासः सात्त्विकं वृत्तमिष्यते 007c
एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः 008a
सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा 008c
आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः 009a
क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते 009c
पृथग्भूतस्ततो नित्यमित्येतदविचारितम् 010a
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः 010c
तथैवैकत्वनानात्वमिष्यते विदुषां नयः 011a
मशकोदुम्बरे त्वैक्यं पृथक्त्वमपि दृश्यते 011c
मत्स्यो यथाऽन्यः स्यादप्सु सम्प्रयोगस्तथाऽनयोः 012a
सम्बन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च 012c
गुरुरुवाच 013
इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम् 013a
पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः 013c
ऋषय ऊचुः 014
किं स्विदेवेह धर्माणामनुष्ठेयतमं स्मृतम् 014a
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् 014c
ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे 015a
केचित्संशयितं सर्वं निःसंशयमथापरे 015c
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे 016a
एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे 016c
एकमेके पृथक्चान्ये बहुत्वमिति चापरे 016e
मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः 017a
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः 017c
अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे 018a
आहारं केचिदिच्छन्ति केचिच्चानशने रताः 018c
कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे 019a
देशकालावुभौ केचिन्नैतदस्तीति चापरे 019c
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् 019e
धनानि केचिदिच्छन्ति निर्धनत्वं तथाऽपरे 020a
उपास्यसाधनं त्वेके नैतदस्तीति चापरे 020c
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः 021a
पुण्येन यशसेत्येके नैतदस्तीति चापरे 021c
सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः 022a
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः 022c
यज्ञमित्यपरे धीराः प्रदानमिति चापरे 023a
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे 023c
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः 024a
ज्ञानं सन्न्यासमित्येके स्वभावं भूतचिन्तकाः 024c
एवं व्युत्थापिते धर्मे बहुधा विप्रधावति 025a
निश्चयं नाधिगच्छामः सम्मूढाः सुरसत्तम 025c
इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः 026a
यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा 026c
तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम् 027a
एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम 027c
अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति 028a
सत्त्वक्षेत्रज्ञयोश्चैव सम्बन्धः केन हेतुना 028c
एवमुक्तः स तैर्विप्रैर्भगवाल्ँलोकभावनः 029a
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् 029c