ब्रह्मोवाच 001
सन्न्यासं तप इत्याहुर्वृद्धा निश्चितदर्शिनः 001a
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः 001c
अविदूरात्परं ब्रह्म वेदविद्याव्यपाश्रयम् 002a
निर्द्वन्द्वं निर्गुणं नित्यमचिन्त्यं गुह्यमुत्तमम् 002c
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्पदम् 003a
निर्णिक्ततमसः पूता व्युत्क्रान्तरजसोऽमलाः 003c
तपसा क्षेममध्वानं गच्छन्ति परमैषिणः 004a
सन्न्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः 004c
तपः प्रदीप इत्याहुराचारो धर्मसाधकः 005a
ज्ञानं त्वेव परं विद्म सन्न्यासस्तप उत्तमम् 005c
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् 006a
सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते 006c
यो विद्वान्सहवासं च विवासं चैव पश्यति 007a
तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते 007c
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते 008a
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते 008c
प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् 009a
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः 009c
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च 010a
निर्गुणं नित्यमद्वन्द्वं प्रशमेनैव गच्छति 010c
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् 011a
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः 011c
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् 012a
महाहङ्कारविटप इन्द्रियान्तरकोटरः 012c
महाभूतविशाखश्च विशेषप्रतिशाखवान् 013a
सदापर्णः सदापुष्पः शुभाशुभफलोदयः 013c
आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः 013e
एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना 014a
हित्वा चामरतां प्राप्य जह्याद्वै मृत्युजन्मनी 014c
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः 014e
द्वावेतौ पक्षिणौ नित्यौ सखायौ चाप्यचेतनौ 015a
एताभ्यां तु परो यस्य चेतनावानिति स्मृतः 015c
अचेतनः सत्त्वसङ्घातयुक्तः सत्त्वात्परं चेतयतेऽन्तरात्मा 016a
स क्षेत्रज्ञः सत्त्वसङ्घातबुद्धिर्गुणातिगो मुच्यते मृत्युपाशात् 016c