ब्रह्मोवाच 001
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि 001a
अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् 001c
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः 002a
गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः 002c
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् 003a
हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान् 003c
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः 004a
धारयीत सदा दण्डं बैल्वं पालाशमेव वा 004c
क्षौमं कार्पासिकं वाऽपि मृगाजिनमथापि वा 005a
सर्वं काषायरक्तं स्याद्वासो वाऽपि द्विजस्य ह 005c
मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा 006a
यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः 006c
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् 007a
भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते 007c
एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः 008a
न संसरति जातीषु परमं स्थानमाश्रितः 008c
संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् 009a
ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत् 009c
चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत् 010a
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः 010c
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् 011a
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् 011c
प्रवृत्तमुदकं वायुं सर्वं वानेयमा तृणात् 012a
प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः 012c
आमूलफलभिक्षाभिरर्चेदतिथिमागतम् 013a
यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः 013c
देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः 014a
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः 014c
दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन् 015a
जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः 015c
त्यक्तदेहः सदा दक्षो वननित्यः समाहितः 016a
एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः 016c
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः 017a
य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् 017c
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् 018a
सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः 018c
अयाचितमसङ्कॢप्तमुपपन्नं यदृच्छया 019a
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः 019c
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् 020a
धर्मलब्धं तथाऽश्नीयान्न काममनुवर्तयेत् 020c
ग्रासादाच्छादनाच्चान्यन्न गृह्णीयात्कथञ्चन 021a
यावदाहारयेत्तावत्प्रतिगृह्णीत नान्यथा 021c
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन 022a
दैन्यभावाच्च भूतानां संविभज्य सदा बुधः 022c
नाददीत परस्वानि न गृह्णीयादयाचितम् 023a
न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः 023c
मृदमापस्तथाऽश्मानं पत्रपुष्पफलानि च 024a
असंवृतानि गृह्णीयात्प्रवृत्तानीह कार्यवान् 024c
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् 025a
न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः 025c
श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत् 025e
मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम् 026a
कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने 026c
वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित् 027a
लाभे न च प्रहृष्येत नालाभे विमना भवेत् 027c
मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः 028a
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः 028c
अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः 028e
शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च 029a
नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा 029c
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् 029e
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् 030a
न चान्यमनुभिक्षेत भिक्षमाणः कथञ्चन 030c
न सन्निकाशयेद्धर्मं विविक्ते विरजाश्चरेत् 031a
शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा 031c
प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् 031e
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् 032a
अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम् 032c
दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् 033a
सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् 033c
पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् 034a
उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा 034c
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च 035a
अक्रोधश्चानसूया च दमो नित्यमपैशुनम् 035c
अष्टास्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः 036a
अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् 036c
आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च 037a
लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत् 037c
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् 038a
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च 038c
परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत् 039a
विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते 039c
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् 040a
वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः 040c
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् 041a
न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत् 041c
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः 042a
क्षीणेन्द्रियमनोबुद्धिर्निरीक्षेत निरिन्द्रियः 042c
निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च 043a
निर्ममो निरहङ्कारो निर्योगक्षेम एव च 043c
निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः 044a
सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः 044c
अपाणिपादपृष्ठं तमशिरस्कमनूदरम् 045a
प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् 045c
अगन्धरसमस्पर्शमरूपाशब्दमेव च 046a
अत्वगस्थ्यथ वामज्जममांसमपि चैव ह 046c
निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा 047a
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः 047c
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः 048a
वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः 048c
यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता 048e
तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः 049a
गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् 049c
अमूढो मूढरूपेण चरेद्धर्ममदूषयन् 050a
यथैनमवमन्येरन्परे सततमेव हि 050c
तथावृत्तश्चरेद्धर्मं सतां वर्त्माविदूषयन् 051a
यो ह्येवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते 051c
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च 052a
मनोबुद्धिरथाऽऽत्मानमव्यक्तं पुरुषं तथा 052c
सर्वमेतत्प्रसङ्ख्याय सम्यक्सन्त्यज्य निर्मलः 053a
ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः 053c
एतदेवान्तवेलायां परिसङ्ख्याय तत्त्ववित् 054a
ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः 054c
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा 055a
क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् 055c