ब्रह्मोवाच 001
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् 001a
महाभूतारविष्कम्भं निमेषपरिवेष्टनम् 001c
जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम् 002a
देशकालविचारीदं श्रमव्यायामनिस्वनम् 002c
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् 003a
सुखदुःखान्तसङ्क्लेशं क्षुत्पिपासावकीलनम् 003c
छायातपविलेखं च निमेषोन्मेषविह्वलम् 004a
घोरमोहजनाकीर्णं वर्तमानमचेतनम् 004c
मासार्धमासगणितं विषमं लोकसञ्चरम् 005a
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् 005c
सत्त्वालङ्कारदीप्तं च गुणसङ्घातमण्डलम् 006a
स्वरविग्रहनाभीकं शोकसङ्घातवर्तनम् 006c
क्रियाकारणसंयुक्तं रागविस्तारमायतम् 007a
लोभेप्सापरिसङ्ख्यातं विविक्तज्ञानसम्भवम् 007c
भयमोहपरीवारं भूतसम्मोहकारकम् 008a
आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् 008c
महदादिविशेषान्तमसक्तप्रभवाव्ययम् 009a
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते 009c
एतद्द्वन्द्वसमायुक्तं कालचक्रमचेतनम् 010a
विसृजेत्सङ्क्षिपेच्चापि बोधयेत्सामरं जगत् 010c
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः 011a
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति 011c
विमुक्तः सर्वसङ्क्लेशैः सर्वद्वन्द्वातिगो मुनिः 012a
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् 012c
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः 013a
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः 013c
यः कश्चिदिह लोके च ह्यागमः सम्प्रकीर्तितः 014a
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी 014c
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः 015a
जातौ गुणविशिष्टायां समावर्तेत वेदवित् 015c
स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः 016a
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह 016c
देवतातिथिशिष्टाशी निरतो वेदकर्मसु 017a
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि 017c
न पाणिपादचपलो न नेत्रचपलो मुनिः 018a
न च वागङ्गचपल इति शिष्टस्य गोचरः 018c
नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः 019a
नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् 019c
जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः 020a
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् 020c
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने 021a
दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् 021c
त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका 022a
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः 022c
अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु 023a
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु 023c
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् 024a
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः 024c
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः 025a
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः 025c