ब्रह्मोवाच 001
यदादिमध्यपर्यन्तं ग्रहणोपायमेव च 001a
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः 001c
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः 002a
श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः 002c
भूमिरादिस्तु गन्धानां रसानामाप एव च 003a
रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते 003c
शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः 003e
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् 004a
आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते 004c
सावित्री सर्वविद्यानां देवतानां प्रजापतिः 005a
ओङ्कारः सर्ववेदानां वचसां प्राण एव च 005c
यद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते 005e
गायत्री छन्दसामादिः पशूनामज उच्यते 006a
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः 006c
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् 007a
परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः 007c
कृतमादिर्युगानां च सर्वेषां नात्र संशयः 008a
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा 008c
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते 009a
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः 009c
स्थावराणां च भूतानां सर्वेषामविशेषतः 010a
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः 010c
अहं प्रजापतीनां च सर्वेषां नात्र संशयः 011a
मम विष्णुरचिन्त्यात्मा स्वयम्भूरिति स स्मृतः 011c
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः 012a
दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा 012c
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता 013a
तथा सरोदपानानां सर्वेषां सागरोऽग्रजः 013c
देवदानवभूतानां पिशाचोरगरक्षसाम् 014a
नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः 014c
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् 015a
भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते 015c
आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः 016a
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च 016c
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी 017a
सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् 017c
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 018a
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 018c
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् 019a
अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम् 019c
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये 020a
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते 020c
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः 021a
निर्ममो निरहङ्कारो मुच्यते सर्वपाप्मभिः 021c