ब्रह्मोवाच 001
मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः 001a
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् 001c
अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम् 002a
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च 002c
न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा 003a
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः 003c
एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः 003e
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् 004a
श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः 004c
शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा 005a
एते पर्वतराजानो गणानां मरुतस्तथा 005c
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः 006a
यमः पितॄणामधिपः सरितामथ सागरः 006c
अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते 007a
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते 007c
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः 008a
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः 008c
त्वष्टाऽधिराजो रूपाणां पशूनामीश्वरः शिवः 009a
दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा 009c
दिशामुदीची विप्राणां सोमो राजा प्रतापवान् 010a
कुबेरः सर्वयक्षाणां देवतानां पुरन्दरः 010c
एष भूतादिकः सर्गः प्रजानां च प्रजापतिः 010e
सर्वेषामेव भूतानामहं ब्रह्ममयो महान् 011a
भूतं परतरं मत्तो विष्णोर्वाऽपि न विद्यते 011c
राजाधिराजः सर्वासां विष्णुर्ब्रह्ममयो महान् 012a
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः 012c
नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम् 013a
देवदानवनागानां सर्वेषामीश्वरो हि सः 013c
भगदेवानुयातानां सर्वासां वामलोचना 014a
माहेश्वरी महादेवी प्रोच्यते पार्वतीति या 014c
उमां देवीं विजानीत नारीणामुत्तमां शुभाम् 015a
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा 015c
धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः 016a
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे 016c
राज्ञां हि विषये येषामवसीदन्ति साधवः 017a
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः 017c
राज्ञां तु विषये येषां साधवः परिरक्षिताः 018a
तेऽस्मिल्ँलोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च 018c
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः 018e
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् 019a
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा 019c
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः 020a
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः 020c
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः 021a
धरणी सर्वभूतानां पृथिवी गन्धलक्षणा 021c
स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा 022a
मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् 022c
मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव व्यवस्यति 023a
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः 023c
लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम् 024a
प्रवृत्तिलक्षणो योगो ज्ञानं सन्न्यासलक्षणम् 024c
तस्माज्ज्ञानं पुरस्कृत्य सन्न्यसेदिह बुद्धिमान् 025a
सन्न्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् 025c
अतीतोऽद्वन्द्वमभ्येति तमोमृत्युजरातिगम् 025e
धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया 026a
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् 026c
पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते 027a
घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते 027c
अपां धातुरसो नित्यं जिह्वया स तु गृह्यते 028a
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते 028c
ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते 029a
चक्षुःस्थश्च तथाऽऽदित्यो रूपज्ञाने विधीयते 029c
वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः 030a
त्वक्स्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते 030c
आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते 031a
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः 031c
मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते 032a
हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते 032c
बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा 033a
निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः 033c
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः 034a
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः 034c
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम् 035a
सदा पश्याम्यहं लीनं विजानामि शृणोमि च 035c
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते 036a
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति 036c
आदिमध्यावसानान्तं सृज्यमानमचेतनम् 037a
न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः 037c
न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति 038a
गुणानां गुणभूतानां यत्परं परतो महत् 038c
तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित् 039a
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ 039c
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च 040a
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः 040c