ब्रह्मोवाच 001
अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै 001a
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 001c
तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु 002a
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च 002c
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते 003a
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् 003c
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते 004a
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् 004c
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे 005a
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन 005c
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः 006a
क्रियाकारणयुक्ताः स्युरनित्या मोहसञ्ज्ञिताः 006c
लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिञ्चनाः 007a
मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः 007c
बहिरात्मान इत्येते दीनाः कृपणवृत्तयः 008a
प्राणापानावुदानश्च समानो व्यान एव च 008c
अन्तरात्मेति चाप्येते नियताः पञ्च वायवः 009a
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् 009c
त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता 010a
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी 010c
अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा 011a
स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते 011c
एकादश च यान्याहुरिन्द्रियाणि विशेषतः 012a
अहङ्कारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः 012c
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी 013a
पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत् 013c
इन्द्रियग्राम इत्येष मन एकादशं भवेत् 014a
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते 014c
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च 015a
श्रोत्रादीन्यपि पञ्चाऽऽहुर्बुद्धियुक्तानि तत्त्वतः 015c
अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु 016a
उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत् 016c
इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात् 017a
मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः 017c
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते 018a
स्थलमापस्तथाऽऽकाशं जन्म चापि चतुर्विधम् 018c
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च 019a
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते 019c
अचराण्यपि भूतानि खेचराणि तथैव च 020a
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् 020c
संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः 021a
जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते 021c
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् 022a
उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः 022c
द्विपादबहुपादानि तिर्यग्गतिमतीनि च 023a
जरायुजानि भूतानि वित्त तान्यपि सत्तमाः 023c
द्विविधाऽपीह विज्ञेया ब्रह्मयोनिः सनातना 024a
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः 024c
द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे 025a
जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम् 025c
एतद्यो वेद विधिवत्स मुक्तः स्याद्द्विजर्षभाः 026a
विमुक्तः सर्वपापेभ्य इति चैव निबोधत 026c
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते 027a
अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् 027c
द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम् 028a
स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम् 028c
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते 029a
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् 029c
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते 030a
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् 030c
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममिष्यते 031a
अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् 031c
एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः 032a
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् 032c
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः 033a
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् 033c
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते 034a
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् 034c
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते 035a
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः 035c
हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः 036a
अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम् 036c
वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते 037a
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् 037c
अध्यात्मं मन इत्याहुः पञ्चभूतानुचारकम् 038a
अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदैवतम् 038c
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी 039a
अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् 039c
यथावदध्यात्मविधिरेष वः कीर्तितो मया 040a
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह 040c
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च 041a
सर्वाण्येतानि सन्धाय मनसा सम्प्रधारयेत् 041c
क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते 042a
ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम् 042c
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् 043a
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा 043c
गुणागुणमनासङ्गमेकचर्यमनन्तरम् 044a
एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम् 044c
विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः 045a
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा 045c
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः 046a
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयं स गच्छति 046c
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् 047a
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते 047c
यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते 048a
तथेन्द्रियनिरोधेन महानात्मा प्रकाशते 048c
यदा पश्यति भूतानि प्रसन्नात्माऽऽत्मनो हृदि 049a
स्वयंयोनिस्तदा सूक्ष्मात्सूक्ष्ममाप्नोत्यनुत्तमम् 049c
अग्नी रूपं पयः स्रोतो वायुः स्पर्शनमेव च 050a
मही पङ्कधरं घोरमाकाशं श्रवणं तथा 050c
रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम् 051a
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् 051c
रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम् 052a
संसर्गाभिरतं मूढं शरीरमिति धारणा 052c
दुश्चरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम् 053a
एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते 053c
एतन्महार्णवं घोरमगाधं मोहसञ्ज्ञितम् 054a
विसृजेत्सङ्क्षिपेच्चैव बोधयेत्सामरं जगत् 054c
कामक्रोधौ भयं मोहमभिद्रोहमथानृतम् 055a
इन्द्रियाणां निरोधेन स तांस्त्यजति दुस्त्यजान् 055c
यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः 056a
व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते 056c
कामकूलामपारान्तां मनःस्रोतोभयावहाम् 057a
नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत् 057c
स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम् 058a
मनो मनसि सन्धाय पश्यत्यात्मानमात्मनि 058c
सर्ववित्सर्वभूतेषु वीक्षत्यात्मानमात्मनि 059a
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः 059c
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा 060a
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः 060c
स हि धाता विधाता च स प्रभुः सर्वतोमुखः 061a
हृदयं सर्वभूतानां महानात्मा प्रकाशते 061c
तं विप्रसङ्घाश्च सुरासुराश्च यक्षाः पिशाचाः पितरो वयांसि 062a
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव सदा स्तुवन्ति 062c