ब्रह्मोवाच 001
य उत्पन्नो महान्पूर्वमहङ्कारः स उच्यते 001a
अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते 001c
अहङ्कारश्च भूतादिर्वैकारिक इति स्मृतः 002a
तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः 002c
देवानां प्रभवो देवो मनसश्च त्रिलोककृत् 003a
अहमित्येव तत्सर्वमभिमन्ता स उच्यते 003c
अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम् 004a
स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः 004c
अहङ्कारेणाहरतो गुणानिमान्भूतादिरेवं सृजते स भूतकृत् 005a
वैकारिकः सर्वमिदं विचेष्टते स्वतेजसा रञ्जयते जगत्तथा 005c