ब्रह्मोवाच 001
अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः 001a
आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते 001c
महानात्मा मतिर्विष्णुर्विश्वः शम्भुश्च वीर्यवान् 002a
बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः 002c
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते 003a
तं जानन्ब्राह्मणो विद्वान्न प्रमोहं निगच्छति 003c
सर्वतः पाणिपादश्च सर्वतोक्षिशिरोमुखः 004a
सर्वतः श्रुतिमाल्ँलोके सर्वं व्याप्य स तिष्ठति 004c
महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः 005a
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः 005c
तत्र बुद्धिमतां लोकाः सन्न्यासनिरताश्च ये 006a
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः 006c
ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः 007a
प्रसन्नमनसो धीरा निर्ममा निरहङ्कृताः 007c
विमुक्ताः सर्व एवैते महत्त्वमुपयान्ति वै 007e
आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् 008a
स धीरः सर्वलोकेषु न मोहमधिगच्छति 008c
विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः 008e
एवं हि यो वेद गुहाशयं प्रभुं नरः पुराणं पुरुषं विश्वरूपम् 009a
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति 009c