ब्रह्मोवाच 001
नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः 001a
अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा 001c
अन्योन्यमनुषज्जन्ते अन्योन्यं चानुजीविनः 002a
अन्योन्यापाश्रयाः सर्वे तथाऽन्योन्यानुवर्तिनः 002c
यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः 003a
यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते 003c
संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः 004a
सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः 004c
उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम् 005a
वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः 005c
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् 006a
अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः 006c
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् 007a
अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः 007c
उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत् 008a
अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः 008c
सत्त्वं वैकारिकं योनिरिन्द्रियाणां प्रकाशिका 009a
न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते 009c
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः 010a
जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः 010c
तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम् 011a
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः 011c
दूरादपि हि दृश्यन्ते सहिताः सङ्घचारिणः 012a
तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम 012c
दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत् 013a
अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः 013c
आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः 014a
परितापोऽध्वगानां च राजसो गुण उच्यते 014c
प्राकाश्यं सत्त्वमादित्ये सन्तापो राजसो गुणः 015a
उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु 015c
एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रयः 016a
पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा 016c
स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः 017a
राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः 017c
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते 018a
मासार्धमासवर्षाणि ऋतवः सन्धयस्तथा 018c
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते 019a
त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः 019c
भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि 020a
प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः 020c
यत्किञ्चिदिह वै लोके सर्वमेष्वेव तत्त्रिषु 021a
त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु 021c
सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः 021e
तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः 022a
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ 022c
अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम् 023a
सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् 023c
ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः 023e
अव्यक्तनामानि गुणांश्च तत्त्वतो यो वेद सर्वाणि गतीश्च केवलाः 024a
विमुक्तदेहः प्रविभागतत्त्ववित्स मुच्यते सर्वगुणैर्निरामयः 024c