ब्रह्मोवाच 001
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् 001a
सर्वभूतहितं लोके सतां धर्ममनिन्दितम् 001c
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च 002a
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता 002c
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् 003a
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः 003c
मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः 004a
एवं यो युक्तधर्मः स्यात्सोऽमुत्राऽऽनन्त्यमश्नुते 004c
निर्ममो निरहङ्कारो निराशीः सर्वतः समः 005a
अकामहत इत्येष सतां धर्मः सनातनः 005c
विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता 006a
आनृशंस्यमसम्मोहो दया भूतेष्वपैशुनम् 006c
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तता 007a
शान्तिकर्म विशुद्धिश्च शुभा बुद्धिर्विमोचनम् 007c
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः 008a
निर्ममत्वमनाशीस्त्वमपरिक्रीतधर्मता 008c
मुधा दानं मुधा यज्ञो मुधाधीतं मुधा व्रतम् 009a
मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः 009c
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्त्वसंश्रयाः 010a
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः 010c
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः 011a
दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्ततः 011c
ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते 012a
विकुर्वते महात्मानो देवास्त्रिदिवगा इव 012c
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः 013a
विकुर्वते प्रकृत्या वै दिवं प्राप्तास्ततस्ततः 013c
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च 013e
इत्येतत्सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः 014a
एतद्विज्ञाय विधिवल्लभते यद्यदिच्छति 014c
प्रकीर्तिताः सत्त्वगुणा विशेषतो यथावदुक्तं गुणवृत्तमेव च 015a
नरस्तु यो वेद गुणानिमान्सदा गुणान्स भुङ्क्ते न गुणैः स भुज्यते 015c