ब्रह्मोवाच 001
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः 001a
निबोधत महाभागा गुणवृत्तं च सर्वशः 001c
सङ्घातो रूपमायासः सुखदुःखे हिमातपौ 002a
ऐश्वर्यं विग्रहः सन्धिर्हेतुवादोऽरतिः क्षमा 002c
बलं शौर्यं मदो रोषो व्यायामकलहावपि 003a
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् 003c
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च 004a
निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम् 004c
उग्रं दारुणमाक्रोशः परवित्तानुशासनम् 005a
लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् 005c
मृषावादो मृषादानं विकल्पः परिभाषणम् 006a
निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम् 006c
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः 007a
व्यूहोऽनयः प्रमादश्च परितापः परिग्रहः 007c
संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक् 008a
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च 008c
सन्तापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये 009a
प्रदानमाशीर्युक्तं च सततं मे भवत्विति 009c
स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया 010a
याजनाध्यापने चोभे तथैवाहुः परिग्रहम् 010c
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः 011a
अभिद्रोहस्तथा माया निकृतिर्मान एव च 011c
स्तैन्यं हिंसा परीवादः परितापः प्रजागरः 012a
स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् 012c
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये 013a
नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन 013c
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः 013e
भूतभव्यभविष्याणां भावानां भुवि भावनाः 014a
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि 014c
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः 015a
अर्वाक्स्रोतस इत्येते तैजसा रजसावृताः 015c
अस्मिल्ँलोके प्रमोदन्ते जायमानाः पुनः पुनः 016a
प्रेत्यभाविकमीहन्त इह लौकिकमेव च 016c
ददति प्रतिगृह्णन्ति जपन्त्यथ च जुह्वति 016e
रजोगुणा वो बहुधाऽनुकीर्तिता यथावदुक्तं गुणवृत्तमेव च 017a
नरो हि यो वेद गुणानिमान्सदा स राजसैः सर्वगुणैर्विमुच्यते 017c