ब्रह्मोवाच 001
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् 001a
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् 001c
एकादशपरिक्षेपं मनो व्याकरणात्मकम् 002a
बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् 002c
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः 003a
प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः 003c
तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते 004a
अन्योन्यमिथुनाः सर्वे तथाऽन्योन्यानुजीविनः 004c
अन्योन्यापाश्रयाश्चैव तथाऽन्योन्यानुवर्तिनः 005a
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः 005c
तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः 006a
रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः 006c
नियम्यते तमो यत्र रजस्तत्र प्रवर्तते 007a
नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते 007c
नैशात्मकं तमो विद्यात्त्रिगुणं मोहसञ्ज्ञितम् 008a
अधर्मलक्षणं चैव नियतं पापकर्मसु 008c
प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम् 009a
प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् 009c
प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता 010a
सात्त्विकं रूपमेवं तु लाघवं साधुसम्मितम् 010c
एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः 011a
समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे 011c
सम्मोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः 012a
स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् 012c
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता 013a
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता 013c
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता 014a
अमैत्री विकृतो भावो अश्रद्धा मूढभावना 014c
अनार्जवमसञ्ज्ञत्वं कर्म पापमचेतना 015a
गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः 015c
सर्व एते गुणा विप्रास्तामसाः सम्प्रकीर्तिताः 016a
ये चान्ये नियता भावा लोकेऽस्मिन्मोहसञ्ज्ञिताः 016c
तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः 017a
परिवादकथा नित्यं देवब्राह्मणवैदिकाः 017c
अत्यागश्चाभिमानश्च मोहो मन्युस्तथाऽक्षमा 018a
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते 018c
वृथारम्भाश्च ये केचिद्वृथादानानि यानि च 019a
वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते 019c
अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता 020a
अश्रद्दधानता चैव तामसं वृत्तमिष्यते 020c
एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः 021a
मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः 021c
तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम् 022a
अवाङ्निरयभावाय तिर्यङ्निरयगामिनः 022c
स्थावराणि च भूतानि पशवो वाहनानि च 023a
क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः 023c
अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः 024a
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः 024c
मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः 025a
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः 025c
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् 026a
यथा ते सुकृताल्ँलोकाल्ँलभन्ते पुण्यकर्मिणः 026c
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु 027a
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् 027c
संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् 028a
स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः 028c
अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु 029a
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः 029c
पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः 030a
वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् 030c
शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः 031a
स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे 031c
अभिषङ्गस्तु कामेषु महामोह इति स्मृतः 032a
ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः 032c
तमो मोहो महामोहस्तामिस्रः क्रोधसञ्ज्ञितः 033a
मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते 033c
भावतो गुणतश्चैव योनितश्चैव तत्त्वतः 034a
सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि 034c
को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति 035a
अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम् 035c
तमोगुणा वो बहुधा प्रकीर्तिता यथावदुक्तं च तमः परावरम् 036a
नरो हि यो वेद गुणानिमान्सदा स तामसैः सर्वगुणैः प्रमुच्यते 036c