अर्जुन उवाच 001
ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि 001a
भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः 001c
वासुदेव उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह 002c
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् 003a
शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परन्तप 003c
भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः 004a
याचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे 004c
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह 005a
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज 005c
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः 006a
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते 006c
शिष्य उवाच 007
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् 007a
कुतो जातानि भूतानि स्थावराणि चराणि च 007c
केन जीवन्ति भूतानि तेषामायुः किमात्मकम् 008a
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः 008c
के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् 008e
एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तम 009a
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः 009c
वासुदेव उवाच 010
तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते 010a
शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने 010c
छायाभूताय दान्ताय यतये ब्रह्मचारिणे 010e
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः 011a
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिन्दम 011c
ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम् 012a
वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् 012c
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् 013a
सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम् 013c
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते 014a
बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः 014c
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् 015a
बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा 015c
वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च 016a
मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः 016c
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः 017a
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् 017c
तं प्रणम्य महात्मानं सुखासीनं महर्षयः 018a
पप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम् 018c
कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात् 019a
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम् 019c
केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति 020a
प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ 020c
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः 021a
तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम् 021c
ब्रह्मोवाच 022
सत्याद्भूतानि जातानि स्थावराणि चराणि च 022a
तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः 022c
स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा 023a
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् 023c
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः 024a
सत्याद्भूतानि जातानि भूतं सत्यमयं महत् 024c
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः 025a
अतीतक्रोधसन्तापा नियता धर्मसेतवः 025c
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् 026a
तानहं सम्प्रवक्ष्यामि शाश्वतान्लोकभावनान् 026c
चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक् 027a
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः 027c
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः 028a
नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः 028c
गदतस्तं ममाद्येह पन्थानं दुर्विदं परम् 029a
निबोधत महाभागा निखिलेन परं पदम् 029c
ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम् 030a
गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् 030c
ततः परं तु विज्ञेयमध्यात्मं परमं पदम् 030e
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः 031a
नोपैति यावदध्यात्मं तावदेतान्न पश्यति 031c
तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत 031e
फलमूलानिलभुजां मुनीनां वसतां वने 032a
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते 032c
सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते 033a
श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते 033c
इत्येते देवयाना वः पन्थानः परिकीर्तिताः 034a
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः 034c
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः 035a
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ 035c
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना 036a
विषयस्थानि सर्वाणि वर्तमानानि भागशः 036c
महानात्मा तथाव्यक्तमहङ्कारस्तथैव च 037a
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च 037c
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः 038a
चतुर्विंशतिरेषा वस्तत्त्वानां सम्प्रकीर्तिता 038c
तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ 039a
स धीरः सर्वभूतेषु न मोहमधिगच्छति 039c
तत्त्वानि यो वेदयते यथातथं गुणांश्च सर्वानखिलाश्च देवताः 040a
विधूतपाप्मा प्रविमुच्य बन्धनं स सर्वलोकानमलान्समश्नुते 040c