ब्राह्मण्युवाच 001
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना 001a
बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम 001c
उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः 002a
तन्मन्ये कारणतमं यत एषा प्रवर्तते 002c
ब्राह्मण उवाच 003
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः 003a
तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः 003c
ब्राह्मण्युवाच 004
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम् 004a
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु 004c
ब्राह्मण उवाच 005
अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते 005a
उपायमेव वक्ष्यामि येन गृह्येत वा न वा 005c
सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते 006a
कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् 006c
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते 007a
पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते 007c
यावन्त इह शक्येरंस्तावतोंऽशान्प्रकल्पयेत् 008a
व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः 008c
सर्वान्नानात्वयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् 009a
यतः परं न विद्येत ततोऽभ्यासे भविष्यति 009c
वासुदेव उवाच 010
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये 010a
क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते 010c
अर्जुन उवाच 011
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः 011a
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत 011c
वासुदेव उवाच 012
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् 012a
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय 012c