ब्राह्मण उवाच 001
नाहं तथा भीरु चरामि लोके तथा त्वं मां तर्कयसे स्वबुद्ध्या 001a
विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि गृहस्थधर्मा ब्रह्मचारी तथाऽस्मि 001c
नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे 002a
मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम् 002c
ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह 003a
तेषां मामन्तकं विद्धि दारूणामिव पावकम् 003c
राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे 004a
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम 004c
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः 005a
गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु 005c
लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते 005e
नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका 006a
ते भावमेकमायान्ति सरितः सागरं यथा 006c
बुद्ध्याऽयं गम्यते मार्गः शरीरेण न गम्यते 007a
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् 007c
तस्मात्ते सुभगे नास्ति परलोककृतं भयम् 008a
मद्भावभावनिरता ममैवात्मानमेष्यसि 008c