ब्राह्मण उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
ब्राह्मणस्य च संवादं जनकस्य च भामिनि 001c
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे 002a
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् 002c
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् 003a
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः 003c
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो 004a
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते 004c
इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना 005a
मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत 005c
तमासीनं ध्यायमानं राजानममितौजसम् 006a
कश्मलं सहसाऽऽगच्छद्भानुमन्तमिव ग्रहः 006c
समाश्वास्य ततो राजा व्यपेते कश्मले तदा 007a
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् 007c
पितृपैतामहे राज्ये वश्ये जनपदे सति 008a
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् 008c
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया 009a
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया 009c
नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् 010a
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता 010c
तया न विषयं मन्ये सर्वो वा विषयो मम 011a
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम 011c
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते 011e
पितृपैतामहे राज्ये वश्ये जनपदे सति 012a
ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया 012c
कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव 013a
नावैषि विषयं येन सर्वो वा विषयस्तव 013c
जनक उवाच 014
अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु 014a
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् 014c
कस्येदमिति कस्य स्वमिति वेदवचस्तथा 015a
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् 015c
एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया 016a
शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम 016c
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि 017a
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा 017c
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः 018a
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा 018c
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा 019a
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा 019c
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये 020a
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा 020c
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि 021a
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा 021c
नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे 022a
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा 022c
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह 023a
इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै 023c
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् 024a
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् 024c
त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः 025a
सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः 025c