ब्राह्मण उवाच 001
त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः 001a
हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः 001c
शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः 002a
स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः 002c
एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः 003a
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः 003c
अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः 004a
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता 004c
समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु 005a
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः 005c
स निगृह्य महादोषान्साधून्समभिपूज्य च 006a
जगाम महतीं सिद्धिं गाथां चेमां जगाद ह 006c
भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः 007a
एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया 007c
येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति 008a
तृष्णार्त इव निम्नानि धावमानो न बुध्यते 008c
अकार्यमपि येनेह प्रयुक्तः सेवते नरः 009a
तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत 009c
लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते 010a
स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् 010c
स तैर्गुणैः संहतदेहबन्धनः पुनः पुनर्जायति कर्म चेहते 011a
जन्मक्षये भिन्नविकीर्णदेहः पुनर्मृत्युं गच्छति जन्मनि स्वे 011c
तस्मादेनं सम्यगवेक्ष्य लोभं निगृह्य धृत्यात्मनि राज्यमिच्छेत् 012a
एतद्राज्यं नान्यदस्तीति विद्याद्यस्त्वत्र राजा विजितो ममैकः 012c
इति राज्ञाऽम्बरीषेण गाथा गीता यशस्विना 013a
आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता 013c