पितर ऊचुः 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम 001c
अलर्को नाम राजर्षिरभवत्सुमहातपाः 002a
धर्मज्ञः सत्यसन्धश्च महात्मा सुमहाव्रतः 002c
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् 003a
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे 003c
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह 004a
उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते 004c
अलर्क उवाच 005
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः 005a
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः 005c
यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति 006a
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् 006c
मन उवाच 007
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन 007a
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 007c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 008a
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 008c
अलर्क उवाच 009
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति 009a
तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् 009c
घ्राण उवाच 010
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन 010a
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 010c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 011a
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 011c
अलर्क उवाच 012
इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति 012a
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् 012c
जिह्वोवाच 013
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन 013a
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 013c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 014a
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 014c
अलर्क उवाच 015
स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति 015a
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः 015c
त्वगुवाच 016
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन 016a
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 016c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 017a
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 017c
अलर्क उवाच 018
श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति 018a
तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् 018c
श्रोत्र उवाच 019
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन 019a
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् 019c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 020a
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 020c
अलर्क उवाच 021
दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति 021a
तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् 021c
चक्षुरुवाच 022
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन 022a
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 022c
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 023a
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 023c
अलर्क उवाच 024
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति 024a
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् 024c
बुद्धिरुवाच 025
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन 025a
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 025c
पितर ऊचुः 026
ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् 026a
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु 026c
सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः 026e
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम 027a
नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः 027c
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः 028a
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् 028c
योगेनात्मानमाविश्य संसिद्धिं परमां ययौ 028e
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह 029a
अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् 029c
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् 029e
इति त्वमपि जानीहि राम मा क्षत्रियाञ्जहि 030a
तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे 030c
ब्राह्मण उवाच 031
इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः 031a
आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् 031c