ब्राह्मण उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि 001c
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् 002a
येन सागरपर्यन्ता धनुषा निर्जिता मही 002c
स कदाचित्समुद्रान्ते विचरन्बलदर्पितः 003a
अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् 003c
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह 004a
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते 004c
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः 005a
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो 005c
अर्जुन उवाच 006
मत्समो यदि सङ्ग्रामे शरासनधरः क्वचित् 006a
विद्यते तं ममाऽऽचक्ष्व यः समासीत मां मृधे 006c
समुद्र उवाच 007
महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः 007a
तस्य पुत्रस्तवाऽऽतिथ्यं यथावत्कर्तुमर्हति 007c
ततः स राजा प्रययौ क्रोधेन महता वृतः 008a
स तमाश्रममागम्य राममेवान्वपद्यत 008c
स रामप्रतिकूलानि चकार सह बन्धुभिः 009a
आयासं जनयामास रामस्य च महात्मनः 009c
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः 010a
प्रदहद्रिपुसैन्यानि तदा कमललोचने 010c
ततः परशुमादाय स तं बाहुसहस्रिणम् 011a
चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् 011c
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः 012a
असीनादाय शक्तीश्च भार्गवं पर्यवारयन् 012c
रामोऽपि धनुरादाय रथमारुह्य सत्वरः 013a
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् 013c
ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च 014a
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव 014c
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् 015a
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् 015c
त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह 016a
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः 016c
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः 017a
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत 017c
एकविंशतिमेधान्ते रामं वागशरीरिणी 018a
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता 018c
राम राम निवर्तस्व कं गुणं तात पश्यसि 019a
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः 019c
तथैव तं महात्मानमृचीकप्रमुखास्तदा 020a
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् 020c
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् 021a
नार्हन्तीह भवन्तो मां निवारयितुमित्युत 021c
पितर ऊचुः 022
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर 022a
न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् 022c