ब्राह्मण उवाच 001
गन्धान्न जिघ्रामि रसान्न वेद्मि रूपं न पश्यामि न च स्पृशामि 001a
न चापि शब्दान्विविधाञ्शृणोमि न चापि सङ्कल्पमुपैमि किञ्चित् 001c
अर्थानिष्टान्कामयते स्वभावः सर्वान्द्वेष्यान्प्रद्विषते स्वभावः 002a
कामद्वेषावुद्भवतः स्वभावात्प्राणापानौ जन्तुदेहान्निवेश्य 002c
तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावान्भूतात्मानं लक्षयेयं शरीरे 003a
तस्मिंस्तिष्ठन्नास्मि शक्यः कथं चित्कामक्रोधाभ्यां जरया मृत्युना च 003c
अकामयानस्य च सर्वकामानविद्विषाणस्य च सर्वदोषान् 004a
न मे स्वभावेषु भवन्ति लेपास्तोयस्य बिन्दोरिव पुष्करेषु 004c
नित्यस्य चैतस्य भवन्ति नित्या निरीक्षमाणस्य बहून्स्वभावान् 005a
न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम् 005c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 006a
अध्वर्युयतिसंवादं तं निबोध यशस्विनि 006c
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् 007a
यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् 007c
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति 008a
श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा 008c
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति 009a
यदस्य वारिजं किञ्चिदपस्तत्प्रतिपद्यते 009c
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च 010a
आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन 010c
यतिरुवाच 011
प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि 011a
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् 011c
अनु त्वा मन्यतां माता पिता भ्राता सखाऽपि च 012a
मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः 012c
य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति 013a
तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा 013c
प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु 014a
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः 014c
इन्धनस्य तु तुल्येन शरीरेण विचेतसा 015a
हिंसा निर्वेष्टुकामानामिन्धनं पशुसञ्ज्ञितम् 015c
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् 016a
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे 016c
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् 017a
शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् 017c
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते 018a
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे 018c
अध्वर्युरुवाच 019
भूमेर्गन्धगुणान्भुङ्क्षे पिबस्यापोमयान्रसान् 019a
ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् 019c
शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् 020a
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे 020c
प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् 021a
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज 021c
यतिरुवाच 022
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः 022a
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते 022c
प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह 023a
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः 023c
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः 024a
समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् 024c
अध्वर्युरुवाच 025
सद्भिरेवेह संवासः कार्यो मतिमतां वर 025a
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम 025c
भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् 026a
मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज 026c
ब्राह्मण उवाच 027
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् 027a
अध्वर्युरपि निर्मोहः प्रचचार महामखे 027c
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः 028a
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना 028c