ब्राह्मण उवाच 001
सङ्कल्पदंशमशकं शोकहर्षहिमातपम् 001a
मोहान्धकारतिमिरं लोभव्यालसरीसृपम् 001c
विषयैकात्ययाध्वानं कामक्रोधविरोधकम् 002a
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् 002c
ब्राह्मण्युवाच 003
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः 003a
गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम् 003c
ब्राह्मण उवाच 004
न तदस्ति पृथग्भावे किञ्चिदन्यत्ततः समम् 004a
न तदस्त्यपृथग्भावे किञ्चिद्दूरतरं ततः 004c
तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् 005a
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् 005c
न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः 006a
न च बिभ्यति केषाञ्चित्तेभ्यो बिभ्यति के च न 006c
तस्मिन्वने सप्त महाद्रुमाश्च फलानि सप्तातिथयश्च सप्त 007a
सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम् 007c
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च 008a
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् 008c
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च 009a
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् 009c
चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च 010a
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् 010c
शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च 011a
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् 011c
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च 012a
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् 012c
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च 013a
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः 013c
एको ह्यग्निः सुमना ब्राह्मणोऽत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति 014a
तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः 014c
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः 015a
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् 015c
प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम् 016a
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् 016c
येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः 017a
ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते 017c
सप्त स्त्रियस्तत्र वसन्ति सद्यो अवाङ्मुखा भानुमत्यो जनित्र्यः 018a
ऊर्ध्वं रसानां ददते प्रजाभ्यः सर्वान्यथा सर्वमनित्यतां च 018c
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च 019a
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह 019c
यशो वर्चो भगश्चैव विजयः सिद्धितेजसी 020a
एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् 020c
गिरयः पर्वताश्चैव सन्ति तत्र समासतः 021a
नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसम्भवम् 021c
नदीनां सङ्गमस्तत्र वैतानः समुपह्वरे 022a
स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् 022c
कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः 023a
आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते 023c
ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः 024a
तदरण्यमभिप्रेत्य यथाधीरमजायत 024c
एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः 025a
विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् 025c