ब्राह्मण उवाच 001
एकः शास्ता न द्वितीयोऽस्ति शास्ता यथा नियुक्तोऽस्मि तथा चरामि 001a
हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता तेनैव युक्तः प्रवणादिवोदकम् 001c
एको गुरुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि 002a
तेनानुशिष्टा गुरुणा सदैव पराभूता दानवाः सर्व एव 002c
एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि 003a
तेनानुशिष्टा बान्धवा बन्धुमन्तः सप्तर्षयः सप्त दिवि प्रभान्ति 003c
एकः श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि 004a
तस्मिन्गुरौ गुरुवासं निरुष्य शक्रो गतः सर्वलोकामरत्वम् 004c
एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि 005a
तेनानुशिष्टा गुरुणा सदैव लोकद्विष्टाः पन्नगाः सर्व एव 005c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 006a
प्रजापतौ पन्नगानां देवर्षीणां च संविदम् 006c
देवर्षयश्च नागाश्च असुराश्च प्रजापतिम् 007a
पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति 007c
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् 008a
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः 008c
तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः 009a
सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु 009c
असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः 010a
दानं देवा व्यवसिता दममेव महर्षयः 010c
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः 011a
नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः 011c
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् 012a
पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते 012c
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते 013a
गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः 013c
पापेन विचरल्ँलोके पापचारी भवत्ययम् 014a
शुभेन विचरल्ँलोके शुभचारी भवत्युत 014c
कामचारी तु कामेन य इन्द्रियसुखे रतः 015a
व्रतवारी सदैवैष य इन्द्रियजये रतः 015c
अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः 016a
ब्रह्मभूतश्चरल्ँलोके ब्रह्मचारी भवत्ययम् 016c
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः 017a
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः 017c
एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः 018a
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः 018c