ब्राह्मण उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
चातुर्होत्रविधानस्य विधानमिह यादृशम् 001c
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते 002a
शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् 002c
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि 003a
चत्वार एते होतारो यैरिदं जगदावृतम् 003c
होतॄणां साधनं चैव शृणु सर्वमशेषतः 004a
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् 004c
मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः 004e
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः 005a
मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः 005c
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः 006a
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः 006c
स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् 007a
अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः 007c
विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि 008a
गुणास्ते देवताभूताः सततं भुञ्जते हविः 008c
अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते 009a
आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते 009c
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् 010a
स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः 010c
अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः 011a
स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः 011c
मनसा गम्यते यच्च यच्च वाचा निरुद्यते 012a
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते 012c
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् 013a
मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः 013c
गुणवत्पावको मह्यं दीप्यते हव्यवाहनः 014a
योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः 014c
प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः 014e
कर्मानुमन्ता ब्रह्मा मे कर्ताऽध्वर्युः कृतस्तुतिः 015a
कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा 015c
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः 016a
नारायणाय देवाय यदबध्नन्पशून्पुरा 016c
तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् 017a
देवं नारायणं भीरु सर्वात्मानं निबोध मे 017c