ब्राह्मण उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
नारदस्य च संवादमृषेर्देवमतस्य च 001c
देवमत उवाच 002
जन्तोः सञ्जायमानस्य किं नु पूर्वं प्रवर्तते 002a
प्राणोऽपानः समानो वा व्यानो वोदान एव च 002c
नारद उवाच 003
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् 003a
प्राणद्वन्द्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् 003c
देवमत उवाच 004
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् 004a
प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् 004c
नारद उवाच 005
सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते 005a
रसात्सञ्जायते चापि रूपादपि च जायते 005c
स्पर्शात्सञ्जायते चापि गन्धादपि च जायते 006a
एतद्रूपमुदानस्य हर्षो मिथुनसम्भवः 006c
कामात्सञ्जायते शुक्रं कामात्सञ्जायते रसः 007a
समानव्यानजनिते सामान्ये शुक्रशोणिते 007c
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते 008a
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते 008c
प्राणापानाविदं द्वन्द्वमवाक्चोर्ध्वं च गच्छतः 009a
व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते 009c
अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् 010a
सञ्जायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् 010c
तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः 011a
सत्त्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः 011c
आघारौ समानो व्यानश्च इति यज्ञविदो विदुः 012a
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः 012c
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 012e
निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणु 013a
अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः 014a
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 014c
उभे चैवायने द्वन्द्वं तयोर्मध्ये हुताशनः 015a
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 015c
उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः 016a
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 016c
उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः 017a
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 017c
सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः 018a
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 018c
प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् 019a
तृतीयं तु समानेन पुनरेव व्यवस्यते 019c
शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् 020a
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 020c