ब्राह्मण उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
सुभगे पञ्चहोतॄणां विधानमिह यादृशम् 001c
प्राणापानावुदानश्च समानो व्यान एव च 002a
पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः 002c
ब्राह्मण्युवाच 003
स्वभावात्सप्त होतार इति ते पूर्विका मतिः 003a
यथा वै पञ्च होतारः परो भावस्तथोच्यताम् 003c
ब्राह्मण उवाच 004
प्राणेन सम्भृतो वायुरपानो जायते ततः 004a
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते 004c
व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते 005a
उदाने सम्भृतो वायुः समानः सम्प्रवर्तते 005c
तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् 006a
यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति 006c
ब्रह्मोवाच 007
यस्मिन्प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे 007a
यस्मिन्प्रचीर्णे च पुनश्चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः 007c
प्राण उवाच 008
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे 008a
मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् 008c
ब्राह्मण उवाच 009
प्राणः प्रलीयत ततः पुनश्च प्रचचार ह 009a
समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे 009c
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् 010a
न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव 010c
प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत 010e
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे 011a
मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् 011c
व्यानश्च तमुदानश्च भाषमाणमथोचतुः 012a
अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव 012c
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् 013a
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना 013c
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे 014a
मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् 014c
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह 015a
प्राणापानावुदानश्च समानश्च तमब्रुवन् 015c
न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव 015e
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् 016a
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना 016c
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे 017a
मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् 017c
ततः समानः प्रालिल्ये पुनश्च प्रचचार ह 018a
प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन् 018c
समान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव 018e
समानः प्रचचाराथ उदानस्तमुवाच ह 019a
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना 019c
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे 020a
मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् 020c
ततः प्रालीयतोदानः पुनश्च प्रचचार ह 021a
प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् 021c
उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव 021e
ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः 022a
सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः 022c
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः 022e
एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः 023a
एक एव ममैवात्मा बहुधाऽप्युपचीयते 023c
परस्परस्य सुहृदो भावयन्तः परस्परम् 024a
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् 024c