ब्राह्मण उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
सुभगे सप्तहोतॄणां विधानमिह यादृशम् 001c
घ्राणं चक्षुश्च जिह्वा च त्वक्श्रोत्रं चैव पञ्चमम् 002a
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः 002c
सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् 003a
एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने 003c
ब्राह्मण्युवाच 004
सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः 004a
कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो 004c
ब्राह्मण उवाच 005
गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता 005a
परस्परगुणानेते न विजानन्ति कर्हिचित् 005c
जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च 006a
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति 006c
घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च 007a
न रसानधिगच्छन्ति जिह्वा तानधिगच्छति 007c
घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च 008a
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति 008c
घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा 009a
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति 009c
घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च 010a
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति 010c
घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं बुद्धिरेव च 011a
संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति 011c
घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं मन एव च 012a
न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति 012c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 013a
इन्द्रियाणां च संवादं मनसश्चैव भामिनि 013c
मन उवाच 014
न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते 014a
रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते 014c
न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन 015a
प्रवरं सर्वभूतानामहमस्मि सनातनम् 015c
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः 016a
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः 016c
काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः 017a
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः 017c
इन्द्रियाण्यूचुः 018
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् 018a
ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि 018c
यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् 019a
भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा 019c
अथ वाऽस्मासु लीनेषु तिष्ठत्सु विषयेषु च 020a
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् 020c
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा 021a
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा 021c
श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया 022a
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च 022c
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् 023a
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि 023c
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति 024a
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति 024c
विषयानेवमस्माभिर्दर्शितानभिमन्यसे 025a
अनागतानतीतांश्च स्वप्ने जागरणे तथा 025c
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् 026a
अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् 026c
बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च 027a
बुभुक्षया पीड्यमानो विषयानेव धावसि 027c
अगारमद्वारमिव प्रविश्य सङ्कल्पभोगो विषयानविन्दन् 028a
प्राणक्षये शान्तिमुपैति नित्यं दारुक्षयेऽग्निर्ज्वलितो यथैव 028c
कामं तु नः स्वेषु गुणेषु सङ्गः कामं च नान्योन्यगुणोपलब्धिः 029a
अस्मानृते नास्ति तवोपलब्धिस्त्वामप्यृतेऽस्मान्न भजेत हर्षः 029c