ब्राह्मण उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
निबोध दशहोतॄणां विधानमिह यादृशम् 001c
सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते 002a
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् 002c
शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते 003a
ततश्चाहवनीयस्तु तस्मिन्सङ्क्षिप्यते हविः 003c
ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते 004a
रूपं भवति वै व्यक्तं तदनुद्रवते मनः 004c
ब्राह्मण्युवाच 005
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् 005a
मनसा चिन्तितं वाक्यं यदा समभिपद्यते 005c
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता 006a
समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति 006c
ब्राह्मण उवाच 007
तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् 007a
तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते 007c
प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि 008a
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् 008c
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् 009a
आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो 009c
मन इत्येव भगवांस्तदा प्राह सरस्वतीम् 010a
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ 010c
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम 011a
स्थावरं मत्सकाशे वै जङ्गमं विषये तव 011c
यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा 012a
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी 012c
यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने 013a
तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति 013c
प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति 014a
प्रेर्यमाणा महाभागे विना प्राणमपानती 014c
प्रजापतिमुपाधावत्प्रसीद भगवन्निति 014e
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः 015a
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् 015c
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते 016a
तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी 016c
गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी 017a
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी 017c
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते 018a
एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः 018c
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया 019a
किं नु पूर्वं ततो देवी व्याजहार सरस्वती 019c
प्राणेन या सम्भवते शरीरे प्राणादपानं प्रतिपद्यते च 020a
उदानभूता च विसृज्य देहं व्यानेन सर्वं दिवमावृणोति 020c
ततः समाने प्रतितिष्ठतीह इत्येव पूर्वं प्रजजल्प चापि 021a
तस्मान्मनः स्थावरत्वाद्विशिष्टं तथा देवी जङ्गमत्वाद्विशिष्टा 021c