वासुदेव उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
दम्पत्योः पार्थ संवादमभयं नाम नामतः 001c
ब्राह्मणी ब्राह्मणं कञ्चिज्ज्ञानविज्ञानपारगम् 002a
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् 002c
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता 003a
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् 003c
भार्याः पतिकृताल्ँलोकानाप्नुवन्तीति नः श्रुतम् 004a
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् 004c
एवमुक्तः स शान्तात्मा तामुवाच हसन्निव 005a
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे 005c
ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते 006a
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः 006c
मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः 007a
नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते 007c
कर्मणा मनसा वाचा शुभं वा यदि वाऽशुभम् 008a
जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते 008c
रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु 009a
आत्मस्थमात्मना तेन दृष्टमायतनं मया 009c
यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना 010a
व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् 010c
यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते 011a
विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः 011c
घ्राणेन न तदाघ्रेयं न तदाद्यं च जिह्वया 012a
स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते 012c
चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम् 013a
अगन्धमरसस्पर्शमरूपाशब्दमव्ययम् 013c
यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति 014a
प्राणोऽपानः समानश्च व्यानश्चोदान एव च 014c
तत एव प्रवर्तन्ते तमेव प्रविशन्ति च 015a
समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः 015c
तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च 016a
अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति 016c
तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः 016e
प्राणानायम्यते येन तमुदानं प्रचक्षते 017a
तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः 017c
तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम् 018a
अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा 018c
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् 019a
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः 019c
घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च 020a
मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम 020c
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः 021a
मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः 021c
घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च 022a
हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु 022c
सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु 022e
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 023a
मनो बुद्धिश्च सप्तैते योनिरित्येव शब्दिताः 023c
हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् 024a
अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु 024c
तत्रैव च निरुध्यन्ते प्रलये भूतभावने 024e
ततः सञ्जायते गन्धस्ततः सञ्जायते रसः 025a
ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते 025c
ततः सञ्जायते शब्दः संशयस्तत्र जायते 026a
ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः 026c
अनेनैव प्रकारेण प्रगृहीतं पुरातनैः 027a
पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा 027c