ब्राह्मण उवाच 001
यः स्यादेकायने लीनस्तूष्णीं किञ्चिदचिन्तयन् 001a
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् 001c
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः 002a
व्यपेतभयमन्युश्च कामहा मुच्यते नरः 002c
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः 003a
अमानी निरभीमानः सर्वतो मुक्त एव सः 003c
जीवितं मरणं चोभे सुखदुःखे तथैव च 004a
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते 004c
न कस्यचित्स्पृहयते नावजानाति किञ्चन 005a
निर्द्वन्द्वो वीतरागात्मा सर्वतो मुक्त एव सः 005c
अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित् 006a
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते 006c
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः 007a
धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते 007c
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् 008a
अस्वस्थमवशं नित्यं जन्मसंसारमोहितम् 008c
वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः 009a
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव 009c
अगन्धरसमस्पर्शमशब्दमपरिग्रहम् 010a
अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते 010c
पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् 011a
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते 011c
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान् 012a
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः 012c
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् 013a
परमाप्नोति संशान्तमचलं दिव्यमक्षरम् 013c
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् 014a
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः 014c
तस्योपदेशं पश्यामि यथावत्तन्निबोध मे 015a
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि 015c
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् 016a
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् 016c
तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः 017a
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि 017c
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि 018a
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि 018c
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः 019a
तथाऽयमात्मनाऽऽत्मानं साधु युक्तः प्रपश्यति 019c
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति 020a
तथारूपमिवाऽऽत्मानं साधु युक्तः प्रपश्यति 020c
इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् 021a
योगी निष्कृष्टमात्मानं तथा सम्पश्यते तनौ 021c
मुञ्जं शरीरं तस्याऽऽहुरिषीकामात्मनि श्रिताम् 022a
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् 022c
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् 023a
तदाऽस्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः 023c
अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते 024a
विनिवृत्य जरामृत्यू न हृष्यति न शोचति 024c
देवानामपि देवत्वं युक्तः कारयते वशी 025a
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् 025c
विनश्यत्स्वपि लोकेषु न भयं तस्य जायते 026a
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् 026c
दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः 027a
न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः 027c
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते 028a
नातः सुखतरं किञ्चिल्लोके क्वचन विद्यते 028c
सम्यग्युक्त्वा यदाऽऽत्मानमात्मन्येव प्रपश्यति 029a
तदैव न स्पृहयते साक्षादपि शतक्रतोः 029c
निर्वेदस्तु न गन्तव्यो युञ्जानेन कथञ्चन 030a
योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु 030c
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्सन्निवसेत्पुरे 031a
पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः 031c
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् 032a
तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः 032c
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते 033a
तस्मिन्काये मनश्चार्यं न कथञ्चन बाह्यतः 033c
सन्नियम्येन्द्रियग्रामं निर्घोषे निर्जने वने 034a
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् 034c
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च 035a
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् 035c
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन 036a
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् 036c
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते 037a
कथं रसत्वं व्रजति शोणितं जायते कथम् 037c
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति 037e
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् 038a
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् 038c
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् 038e
कुतो वाऽयं प्रश्वसिति उच्छ्वसित्यपि वा पुनः 039a
कं च देशमधिष्ठाय तिष्ठत्यात्माऽयमात्मनि 039c
जीवः कायं वहति चेच्चेष्टयानः कलेवरम् 040a
किंवर्णं कीदृशं चैव निवेशयति वै मनः 040c
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ 040e
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव 041a
प्रत्यब्रुवं महाबाहो यथाश्रुतमरिन्दम 041c
यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् 042a
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः 042c
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् 042e
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव 043a
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् 043c
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः 044a
मनसैव प्रदीपेन महानात्मनि दृश्यते 044c
सर्वतः पाणिपादं तं सर्वतोक्षिशिरोमुखम् 045a
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति 045c
स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् 046a
आत्मानमालोकयति मनसा प्रहसन्निव 046c
इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम 047a
आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम् 047c
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः 048a
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः 048c
वासुदेव उवाच 049
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः 049a
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत 049c
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा 050a
तदाऽपि हि रथस्थस्त्वं श्रुतवानेतदेव हि 050c
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः 051a
नरेणाकृतसञ्ज्ञेन विदग्धेनाकृतात्मना 051c
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ 052a
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित् 052c
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ 053a
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना 053c
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः 054a
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् 054c
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् 055a
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी 055c
एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः 056a
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् 056c
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः 057a
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः 057c
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने 058a
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः 058c
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ 058e
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव 059a
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् 059c
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् 059e
एतावदेव वक्तव्यं नातो भूयोऽस्ति किञ्चन 060a
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते 060c