ब्राह्मण उवाच 001
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् 001a
प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा 001c
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु 002a
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् 002c
पापं चापि तथैव स्यात्पापेन मनसा कृतम् 003a
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते 003c
यथा कर्मसमादिष्टं काममन्युसमावृतः 004a
नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् 004c
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् 005a
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाऽशुभम् 005c
सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जते 006a
सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् 006c
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः 006e
स जीवः सर्वगात्राणि गर्भस्याऽऽविश्य भागशः 007a
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः 007c
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः 007e
यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् 008a
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् 008c
लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् 009a
तथा त्वमपि जानीहि गर्भे जीवोपपादनम् 009c
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् 010a
एवमेव शरीराणि प्रकाशयति चेतना 010c
यद्यच्च कुरुते कर्म शुभं वा यदि वाऽशुभम् 011a
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते 011c
ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते 012a
यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते 012c
तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै 013a
आवर्तमानो जातीषु तथाऽन्योन्यासु सत्तम 013c
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् 014a
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् 014c
संयमश्चानृशंस्यं च परस्वादानवर्जनम् 015a
व्यलीकानामकरणं भूतानां यत्र सा भुवि 015c
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् 016a
गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः 016c
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते 017a
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः 017c
एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः 018a
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः 018c
तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः 019a
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् 019c
अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु 020a
यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते 020c
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा 021a
संसारतारणं ह्यस्य कालेन महता भवेत् 021c
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते 022a
सर्वं तत्कारणं येन निकृतोऽयमिहागतः 022c
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् 023a
इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् 023c
शरीरमात्मनः कृत्वा सर्वभूतपितामहः 024a
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् 024c
ततः प्रधानमसृजच्चेतना सा शरीरिणाम् 025a
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः 025c
इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् 026a
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् 026c
असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः 027a
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः 027c
तस्य कालपरीमाणमकरोत्स पितामहः 028a
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च 028c
यथाऽत्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि 029a
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते 029c
सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति 030a
कायं चामेध्यसङ्घातं विनाशं कर्मसंहितम् 030c
यच्च किञ्चित्सुखं तच्च सर्वं दुःखमिति स्मरन् 031a
संसारसागरं घोरं तरिष्यति सुदुस्तरम् 031c
जातीमरणरोगैश्च समाविष्टः प्रधानवित् 032a
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति 032c
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् 033a
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम 033c
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् 034a
प्रोच्यमानं मया विप्र निबोधेदमशेषतः 034c