वासुदेव उवाच 001
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् 001a
पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः 001c
काश्यप उवाच 002
कथं शरीरं च्यवते कथं चैवोपपद्यते 002a
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते 002c
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति 003a
शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते 003c
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः 004a
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति 004c
ब्राह्मण उवाच 005
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत 005a
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु 005c
सिद्ध उवाच 006
आयुःकीर्तिकराणीह यानि कर्माणि सेवते 006a
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः 006c
आयुःक्षयपरीतात्मा विपरीतानि सेवते 007a
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते 007c
सत्त्वं बलं च कालं चाप्यविदित्वाऽऽत्मनस्तथा 008a
अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् 008c
यदायमतिकष्टानि सर्वाण्युपनिषेवते 009a
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन 009c
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च 010a
गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः 010c
व्यायाममतिमात्रं वा व्यवायं चोपसेवते 011a
सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम् 011c
रसातियुक्तमन्नं वा दिवास्वप्नं निषेवते 012a
अपक्वानागते काले स्वयं दोषान्प्रकोपयन् 012c
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् 013a
अथ चोद्बन्धनादीनि परीतानि व्यवस्यति 013c
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा 014a
जीवितं प्रोच्यमानं तद्यथावदुपधारय 014c
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः 015a
शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै 015c
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः 016a
भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च 016c
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् 017a
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु 017c
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम 017e
जातीमरणसंविग्नाः सततं सर्वजन्तवः 018a
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ 018c
गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे 019a
तादृशीमेव लभते वेदनां मानवः पुनः 019c
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः 020a
यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति 020c
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः 020e
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः 021a
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् 021c
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते 022a
निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः 022c
ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः 023a
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् 023c
तैरेव न विजानाति प्राणमाहारसम्भवम् 023e
तत्रैव कुरुते काये यः स जीवः सनातनः 024a
तेषां यद्यद्भवेद्युक्तं सन्निपाते क्वचित्क्वचित् 024c
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा 024e
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् 025a
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै 025c
ततः स चेतनो जन्तुर्नाभिजानाति किञ्चन 025e
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु 026a
स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना 026c
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् 027a
निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् 027c
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः 028a
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते 028c
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः 029a
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः 029c
यथान्धकारे खद्योतं लीयमानं ततस्ततः 030a
चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः 030c
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा 031a
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् 031c
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः 032a
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः 032c
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः 033a
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः 033c
इहैवाशुभकर्मा तु कर्मभिर्निरयं गतः 034a
अवाक्स निरये पापो मानवः पच्यते भृशम् 034c
तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः 034e
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः 035a
कीर्त्यमानानि तानीह तत्त्वतः सन्निबोध मे 035c
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात् 035e
तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् 036a
यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् 036c
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् 036e
कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः 037a
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः 037c
न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् 038a
इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः 038c
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् 039a
यथावत्तां निगदतः शृणुष्वावहितो द्विज 039c