जनमेजय उवाच 001
सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः 001a
केशवार्जुनयोः का नु कथा समभवद्द्विज 001c
वैशम्पायन उवाच 002
कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् 002a
तस्यां सभायां रम्यायां विजहार मुदा युतः 002c
ततः कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप 003a
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ 003c
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः 004a
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् 004c
विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते 005a
माहात्म्यं देवकीमातस्तच्च ते रूपमैश्वरम् 005c
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् 006a
तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः 006c
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो 007a
भवांश्च द्वारकां गन्ता नचिरादिव माधव 007c
एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत 008a
परिष्वज्य महातेजा वचनं वदतां वरः 008c
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् 009a
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् 009c
अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् 010a
नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव 010c
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने 011a
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः 011c
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया 012a
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् 012c
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि 013a
शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे 013c
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम 014a
ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् 014c
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ 015a
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् 015c
ब्राह्मण उवाच 016
मोक्षधर्मं समाश्रित्य कृष्ण यन्माऽनुपृच्छसि 016a
भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो 016c
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन 017a
शृणुष्वावहितो भूत्वा गदतो मम माधव 017c
कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः 018a
आससाद द्विजं कञ्चिद्धर्माणामागतागमम् 018c
गतागते सुबहुशो ज्ञानविज्ञानपारगम् 019a
लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः 019c
जातीमरणतत्त्वज्ञं कोविदं पुण्यपापयोः 020a
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् 020c
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् 021a
दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः 021c
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः 022a
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह 022c
सम्भाषमाणमेकान्ते समासीनं च तैः सह 023a
यदृच्छया च गच्छन्तमसक्तं पवनं यथा 023c
तं समासाद्य मेधावी स तदा द्विजसत्तमः 024a
चरणौ धर्मकामो वै तपस्वी सुसमाहितः 024c
प्रतिपेदे यथान्यायं भक्त्या परमया युतः 024e
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् 025a
परिचारेण महता गुरुं वैद्यमतोषयत् 025c
प्रीतात्मा चोपपन्नश्च श्रुतचारित्रसंयुतः 026a
भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः 026c
तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः 027a
सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन 027c
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः 028a
गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् 028c
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः 029a
स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः 029c
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् 030a
काममन्युपरीतेन तृष्णया मोहितेन च 030c
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः 031a
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः 031c
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः 032a
सुखानि च विचित्राणि दुःखानि च मयाऽनघ 032c
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह 033a
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् 033c
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा 034a
शारीरा मानसाश्चापि वेदना भृशदारुणाः 034c
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः 035a
पतनं निरये चैव यातनाश्च यमक्षये 035c
जरा रोगाश्च सततं वासनानि च भूरिशः 036a
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया 036c
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च 037a
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया 037c
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया 037e
नाहं पुनरिहाऽऽगन्ता लोकानाऽऽलोकयाम्यहम् 038a
आ सिद्धेरा प्रजासर्गादात्मनो मे गतिः शुभा 038c
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा 039a
इतः परं गमिष्यामि ततः परतरं पुनः 039c
ब्रह्मणः पदमव्यग्रं मा ते भूदत्र संशयः 039e
नाहं पुनरिहाऽऽगन्ता मर्त्यलोकं परन्तप 040a
प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते 040c
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः 041a
अभिजाने च तदहं यदर्थं मा त्वमागतः 041c
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् 041e
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण 042a
परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् 042c
बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च 043a
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप 043c