जनमेजय उवाच 001
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम 001a
राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनञ्जयौ 001c
वैशम्पायन उवाच 002
विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते 002a
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनञ्जयौ 002c
विजह्राते मुदा युक्तौ दिवि देवेश्वराविव 003a
तौ वनेषु विचित्रेषु पर्वतानां च सानुषु 003c
शैलेषु रमणीयेषु पल्वलेषु नदीषु च 004a
चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने 004c
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ 005a
प्रविश्य तां सभां रम्यां विजह्राते च भारत 005c
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव 006a
कथायोगे कथायोगे कथयामासतुस्तदा 006c
ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा 007a
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ 007c
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः 008a
निश्चयज्ञः स पार्थाय कथयामास केशवः 008c
पुत्रशोकाभिसन्तप्तं ज्ञातीनां च सहस्रशः 009a
कथाभिः शमयामास पार्थं शौरिर्जनार्दनः 009c
स तमाश्वास्य विधिवद्विधानज्ञो महातपाः 010a
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः 010c
ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह 011a
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः 011c
विजितेयं धरा कृत्स्ना सव्यसाचिन्परन्तप 012a
त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह 012c
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः 013a
भीमसेनप्रभावेन यमयोश्च नरोत्तम 013c
धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् 014a
धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः 014c
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः 015a
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः 015c
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः 016a
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह 016c
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव 017a
किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन 017c
यत्र धर्मसुतो राजा यत्र भीमो महाबलः 018a
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम 018c
तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत 019a
रमणीयेषु पुण्येषु सहितस्य त्वयाऽनघ 019c
कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः 020a
बलदेवं च कौरव्य तथाऽन्यान्वृष्णिपुङ्गवान् 020c
सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति 021a
रोचतां गमनं मह्यं तवापि पुरुषर्षभ 021c
उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः 022a
स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते 022c
शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः 023a
तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना 023c
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि 024a
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा 024c
तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन 025a
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् 025c
न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते 026a
कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति 026c
सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया 027a
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन 027c
प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन 028a
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः 028c
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः 029a
स्थिता समुद्रवसना सशैलवनकानना 029c
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव 029e
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम् 030a
उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः 030c
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ 030e
तन्मया सह गत्वाऽद्य राजानं कुरुवर्धनम् 031a
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति 031c
इदं शरीरं वसु यच्च मे गृहे निवेदितं पार्थ सदा युधिष्ठिरे 032a
प्रियश्च मान्यश्च हि मे युधिष्ठिरः सदा कुरूणामधिपो महामतिः 032c
प्रयोजनं चापि निवासकारणे न विद्यते मे त्वदृते महाभुज 033a
स्थिता हि पृथ्वी तव पार्थ शासने गुरोः सुवृत्तस्य युधिष्ठिरस्य ह 033c
इतीदमुक्तं स तदा महात्मना जनार्दनेनामितविक्रमोऽर्जुनः 034a
तथेति कृच्छ्रादिव वाचमीरयज्जनार्दनं सम्प्रतिपूज्य पार्थिव 034c