वैशम्पायन उवाच 001
एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः 001a
समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः 001c
सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् 002a
द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः 002c
नारदेनाथ भीमेन नकुलेन च पार्थिवः 003a
कृष्णया सहदेवेन विजयेन च धीमता 003c
अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः 004a
व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम् 004c
अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः 005a
कृत्वाऽथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः 005c
अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् 005e
प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् 006a
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः 006c
आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः 007a
न सूक्ष्ममपि मे किञ्चिद्व्यलीकमिह विद्यते 007c
अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः 008a
पुरस्कृत्येह भवतः समानेष्यामहे मखम् 008c
हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह 009a
बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम 009c
तथा भगवता चित्रं कल्याणं बहु भाषितम् 010a
देवर्षिणा नारदेन देवस्थानेन चैव ह 010c
नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् 011a
लभते व्यसनं प्राप्य सुहृदः साधुसम्मतान् 011c
एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः 012a
अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ 012c
पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः 012e
ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः 013a
एवं नातिमहान्कालः स तेषामभ्यवर्तत 013c
कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा 014a
महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम् 014c
भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन 015a
सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम् 015c
ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः 016a
धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् 016c
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् 017a
अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह 017c