वासुदेव उवाच 001
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत 001a
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा 001c
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः 002a
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा 002c
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् 003a
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् 003c
ब्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ 004a
अदृश्यमानौ भूतानि योधयेतामसंशयम् 004c
अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत 005a
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते 005c
लब्ध्वाऽपि पृथिवीं सर्वां सहस्थावरजङ्गमाम् 006a
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति 006c
अथ वा वसतः पार्थ वने वन्येन जीवतः 007a
ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते 007c
बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत 008a
यन्न पश्यति तद्भूतं मुच्यते स महाभयात् 008c
कामात्मानं न प्रशंसन्ति लोके न चाकामात्काचिदस्ति प्रवृत्तिः 009a
दानं हि वेदाध्ययनं तपश्च कामेन कर्माणि च वैदिकानि 009c
व्रतं यज्ञान्नियमान्ध्यानयोगान्कामेन यो नारभते विदित्वा 010a
यद्यद्ध्ययं कामयते स धर्मो न यो धर्मो नियमस्तस्य मूलम् 010c
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः 011a
शृणु सङ्कीर्त्यमानास्ता निखिलेन युधिष्ठिर 011c
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् 012a
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् 012c
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् 012e
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः 013a
जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् 013c
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः 014a
स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् 014c
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः 015a
भावो भवामि तस्याहं स च मां नावबुध्यते 015c
यो मां प्रयतते हन्तुं तपसा संशितव्रतः 016a
ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् 016c
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः 017a
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च 017c
अवध्यः सर्वभूतानामहमेकः सनातनः 017e
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः 018a
धर्मं कुरु महाराज तत्र ते स भविष्यति 018c
यजस्व वाजिमेधेन विधिवद्दक्षिणावता 019a
अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः 019c
मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः 020a
न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे 020c
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः 021a
लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि 021c