वासुदेव उवाच 001
द्विविधो जायते व्याधिः शारीरो मानसस्तथा 001a
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते 001c
शरीरे जायते व्याधिः शारीरो नात्र संशयः 002a
मानसो जायते व्याधिर्मनस्येवेति निश्चयः 002c
शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः 003a
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् 003c
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते 003e
सत्त्वं रजस्तमश्चेति त्रयस्त्वात्मगुणाः स्मृताः 004a
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् 004c
तेषामन्यतमोत्सेके विधानमुपदिश्यते 004e
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते 005a
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति 005c
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति 005e
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा 006a
स्मर्तुमिच्छसि कौन्तेय दिष्टं हि बलवत्तरम् 006c
अथ वा ते स्वभावोऽयं येन पार्थावकृष्यसे 007a
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् 007c
मिषतां पाण्डवेयानां न तत्संस्मर्तुमिच्छसि 007e
प्रव्राजनं च नगरादजिनैश्च विवासनम् 008a
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि 008c
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः 009a
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि 009c
पुनरज्ञातचर्यायां कीचकेन पदा वधः 010a
याज्ञसेन्यास्तदा पार्थ न तस्य स्मर्तुमिच्छसि 010c
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम 011a
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् 011c
तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ 011e
परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः 012a
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः 012c
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् 012e
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि 013a
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि 013c
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् 014a
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् 014c