वैशम्पायन उवाच 001
इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा 001a
वासुदेवो महातेजास्ततो वचनमाददे 001c
तं नृपं दीनमनसं निहतज्ञातिबान्धवम् 002a
उपप्लुतमिवादित्यं सधूममिव पावकम् 002c
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः 003a
आश्वासयन्धर्मसुतं प्रवक्तुमुपचक्रमे 003c
वासुदेव उवाच 004
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् 004a
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति 004c
नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः 005a
कथं शत्रुं शरीरस्थमात्मानं नावबुध्यसे 005c
अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् 006a
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत 006c
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप 007a
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते 007c
धराहरणदुर्गन्धो विषयः समपद्यत 007e
शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते 008a
वृत्रस्य स ततः क्रुद्धो वज्रं घोरमवासृजत् 008c
स वध्यमानो वज्रेण पृथिव्यां भूरितेजसा 009a
विवेश सहसैवापो जग्राह विषयं ततः 009c
व्याप्तास्वथाप्सु वृत्रेण रसे च विषये हृते 010a
शतक्रतुरभिक्रुद्धस्तासु वज्रमवासृजत् 010c
स वध्यमानो वज्रेण सलिले भूरितेजसा 011a
विवेश सहसा ज्योतिर्जग्राह विषयं ततः 011c
व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते 012a
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् 012c
स वध्यमानो वज्रेण सुभृशं भूरितेजसा 013a
विवेश सहसा वायुं जग्राह विषयं ततः 013c
व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते 014a
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् 014c
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा 015a
आकाशमभिदुद्राव जग्राह विषयं ततः 015c
आकाशे वृत्रभूते च शब्दे च विषये हृते 016a
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् 016c
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा 017a
विवेश सहसा शक्रं जग्राह विषयं ततः 017c
तस्य वृत्रगृहीतस्य मोहः समभवन्महान् 018a
रथन्तरेण तं तात वसिष्ठः प्रत्यबोधयत् 018c
ततो वृत्रं शरीरस्थं जघान भरतर्षभ 019a
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् 019c
इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु 020a
ऋषिभिश्च मम प्रोक्तं तन्निबोध नराधिप 020c