इन्द्र उवाच 001
एवमेतद्ब्रह्मबलं गरीयो न ब्रह्मतः किञ्चिदन्यद्गरीयः 001a
आविक्षितस्य तु बलं न मृष्ये वज्रमस्मै प्रहरिष्यामि घोरम् 001c
धृतराष्ट्र प्रहितो गच्छ मरुत्तं संवर्तेन सहितं तं वदस्व 002a
बृहस्पतिं त्वमुपशिक्षस्व राजन्वज्रं वा ते प्रहरिष्यामि घोरम् 002c
व्यास उवाच 003
ततो गत्वा धृतराष्ट्रो नरेन्द्रं प्रोवाचेदं वचनं वासवस्य 003a
गन्धर्वं मां धृतराष्ट्रं निबोध त्वामागतं वक्तुकामं नरेन्द्र 003c
ऐन्द्रं वाक्यं शृणु मे राजसिंह यत्प्राह लोकाधिपतिर्महात्मा 004a
बृहस्पतिं याजकं त्वं वृणीष्व वज्रं वा ते प्रहरिष्यामि घोरम् 004c
वचश्चेदेतन्न करिष्यसे मे प्राहैतदेतावदचिन्त्यकर्मा 004e
मरुत्त उवाच 005
त्वं चैवैतद्वेत्थ पुरन्दरश्च विश्वेदेवा वसवश्चाश्विनौ च 005a
मित्रद्रोहे निष्कृतिर्वै यथैव नास्तीति लोकेषु सदैव वादः 005c
बृहस्पतिर्याजयिता महेन्द्रं देवश्रेष्ठं वज्रभृतां वरिष्ठम् 006a
संवर्तो मां याजयिताऽद्य राजन्न ते वाक्यं तस्य वा रोचयामि 006c
गन्धर्व उवाच 007
घोरो नादः श्रूयते वासवस्य नभस्तले गर्जतो राजसिंह 007a
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः क्षेमं राजंश्चिन्त्यतामेष कालः 007c
व्यास उवाच 008
इत्येवमुक्तो धृतराष्ट्रेण राजा श्रुत्वा नादं नदतो वासवस्य 008a
तपोनित्यं धर्मविदां वरिष्ठं संवर्तं तं ज्ञापयामास कार्यम् 008c
मरुत्त उवाच 009
इममश्मानं प्लवमानमारादध्वा दूरं तेन न दृश्यतेऽद्य 009a
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः प्रयच्छ तस्मादभयं विप्रमुख्य 009c
अयमायाति वै वज्री दिशो विद्योतयन्दश 010a
अमानुषेण घोरेण सदस्यास्त्रासिता हि नः 010c
संवर्त उवाच 011
भयं शक्राद्व्येतु ते राजसिंह प्रणोत्स्येऽहं भयमेतत्सुघोरम् 011a
संस्तम्भिन्या विद्यया क्षिप्रमेव मा भैस्त्वमस्माद्भव चापि प्रतीतः 011c
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप 012a
सर्वेषामेव देवानां क्षपितान्यायुधानि मे 012c
दिशो वज्रं व्रजतां वायुरेतु वर्षं भूत्वा निपततु काननेषु 013a
आपः प्लवन्त्वन्तरिक्षे वृथा च सौदामिनी दृश्यतां मा बिभस्त्वम् 013c
अथो वह्निस्त्रातु वा सर्वतस्ते कामं वर्षं वर्षतु वासवो वा 014a
वज्रं तथा स्थापयतां च वायुर्महाघोरं प्लवमानं जलौघैः 014c
मरुत्त उवाच 015
घोरः शब्दः श्रूयते वै महास्वनो वज्रस्यैष सहितो मारुतेन 015a
आत्मा हि मे प्रव्यथते मुहुर्मुहुर्न मे स्वास्थ्यं जायते चाद्य विप्र 015c
संवर्त उवाच 016
वज्रादुग्राद्व्येतु भयं तवाद्य वातो भूत्वा हन्मि नरेन्द्र वज्रम् 016a
भयं त्यक्त्वा वरमन्यं वृणीष्व कं ते कामं तपसा साधयामि 016c
मरुत्त उवाच 017
इन्द्रः साक्षात्सहसाऽभ्येतु विप्र हविर्यज्ञे प्रतिगृह्णातु चैव 017a
स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः सुतं सोमं प्रतिगृह्णन्तु चैव 017c
संवर्त उवाच 018
अयमिन्द्रो हरिभिरायाति राजन्देवैः सर्वैः सहितः सोमपीथी 018a
मन्त्राहूतो यज्ञमिमं मयाऽद्य पश्यस्वैनं मन्त्रविस्रस्तकायम् 018c
व्यास उवाच 019
ततो देवैः सहितो देवराजो रथे युक्त्वा तान्हरीन्वाजिमुख्यान् 019a
आयाद्यज्ञमधि राज्ञः पिपासुराविक्षितस्याप्रमेयस्य सोमम् 019c
तमायान्तं सहितं देवसङ्घैः प्रत्युद्ययौ सपुरोधा मरुत्तः 020a
चक्रे पूजां देवराजाय चाग्र्यां यथाशास्त्रं विधिवत्प्रीयमाणः 020c
संवर्त उवाच 021
स्वागतं ते पुरुहूतेह विद्वन्यज्ञोऽद्यायं सन्निहिते त्वयीन्द्र 021a
शोशुभ्यते बलवृत्रघ्न भूयः पिबस्व सोमं सुतमुद्यतं मया 021c
मरुत्त उवाच 022
शिवेन मां पश्य नमश्च तेऽस्तु प्राप्तो यज्ञः सफलं जीवितं मे 022a
अयं यज्ञं कुरुते मे सुरेन्द्र बृहस्पतेरवरो जन्मना यः 022c
इन्द्र उवाच 023
जानामि ते गुरुमेनं तपोधनं बृहस्पतेरनुजं तिग्मतेजसम् 023a
यस्याह्वानादागतोऽहं नरेन्द्र प्रीतिर्मेऽद्य त्वयि मनुः प्रनष्टः 023c
संवर्त उवाच 024
यदि प्रीतस्त्वमसि वै देवराज तस्मात्स्वयं शाधि यज्ञे विधानम् 024a
स्वयं सर्वान्कुरु मार्गान्सुरेन्द्र जानात्वयं सर्वलोकश्च देव 024c
व्यास उवाच 025
एवमुक्तस्त्वाङ्गिरसेन शक्रः समादिदेश स्वयमेव देवान् 025a
सभाः क्रियन्तामावसथाश्च मुख्याः सहस्रशश्चित्रभौमाः समृद्धाः 025c
कॢप्तस्थूणाः कुरुतारोहणानि गन्धर्वाणामप्सरसां च शीघ्रम् 026a
येषु नृत्येरन्नप्सरसः सहस्रशः स्वर्गोद्देशः क्रियतां यज्ञवाटः 026c
इत्युक्तास्ते चक्रुराशु प्रतीता दिवौकसः शक्रवाक्यान्नरेन्द्र 027a
ततो वाक्यं प्राह राजानमिन्द्रः प्रीतो राजन्पूजयानो मरुत्तम् 027c
एष त्वयाहमिह राजन्समेत्य ये चाप्यन्ये तव पूर्वे नरेन्द्राः 028a
सर्वाश्चान्या देवताः प्रीयमाणा हविस्तुभ्यं प्रतिगृह्णन्तु राजन् 028c
आग्नेयं वै लोहितमालभन्तां वैश्वदेवं बहुरूपं विराजन् 029a
नीलं चोक्षाणं मेध्यमभ्यालभन्तां चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः 029c
ततो यज्ञो ववृधे तस्य राज्ञो यत्र देवाः स्वयमन्नानि जह्रुः 030a
यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः सदस्योऽभूद्धरिमान्देवराजः 030c
ततः संवर्तश्चित्यगतो महात्मा यथा वह्निः प्रज्वलितो द्वितीयः 031a
हवींष्युच्चैराह्वयन्देवसङ्घाञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः 031c
ततः पीत्वा बलभित्सोममग्र्यं ये चाप्यन्ये सोमपा वै दिवौकसः 032a
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्तः 032c
ततो राजा जातरूपस्य राशीन्पदे पदे कारयामास हृष्टः 033a
द्विजातिभ्यो विसृजन्भूरि वित्तं रराज वित्तेश इवारिहन्ता 033c
ततो वित्तं विविधं सन्निधाय यथोत्साहं कारयित्वा च कोशम् 034a
अनुज्ञातो गुरुणा सन्निवृत्य शशास गामखिलां सागरान्ताम् 034c
एवङ्गुणः सम्बभूवेह राजा यस्य क्रतौ तत्सुवर्णं प्रभूतम् 035a
तत्त्वं समादाय नरेन्द्र वित्तं यजस्व देवांस्तर्पयानो विधानैः 035c
वैशम्पायन उवाच 036
ततो राजा पाण्डवो हृष्टरूपः श्रुत्वा वाक्यं सत्यवत्याः सुतस्य 036a
मनश्चक्रे तेन वित्तेन यष्टुं ततोऽमात्यैर्मन्त्रयामास भूयः 036c