इन्द्र उवाच 001
कच्चित्सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते 001a
कच्चिद्देवानां सुखकामोऽसि विप्र कच्चिद्देवास्त्वां परिपालयन्ति 001c
बृहस्पतिरुवाच 002
सुखं शयेऽहं शयने महेन्द्र तथा मनोज्ञाः परिचारका मे 002a
तथा देवानां सुखकामोऽस्मि शक्र देवाश्च मां सुभृशं पालयन्ति 002c
इन्द्र उवाच 003
कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्य 003a
आचक्ष्व मे तद्द्विज यावदेतान्निहन्मि सर्वांस्तव दुःखकर्तॄन् 003c
बृहस्पतिरुवाच 004
मरुत्तमाहुर्मघवन्यक्ष्यमाणं महायज्ञेनोत्तमदक्षिणेन 004a
तं संवर्तो याजयितेति मे श्रुतं तदिच्छामि न स तं याजयेत 004c
इन्द्र उवाच 005
सर्वान्कामाननुजातोऽसि विप्र यस्त्वं देवानां मन्त्रयसे पुरोधाः 005a
उभौ च ते जन्ममृत्यू व्यतीतौ किं संवर्तस्तव कर्ताऽद्य विप्र 005c
बृहस्पतिरुवाच 006
देवैः सह त्वमसुरान्सम्प्रणुद्य जिघांससेऽद्याप्युत सानुबन्धान् 006a
यं यं समृद्धं पश्यसि तत्र तत्र दुःखं सपत्नेषु समृद्धभावः 006c
अतोऽस्मि देवेन्द्र विवर्णरूपः सपत्नो मे वर्धते तन्निशम्य 007a
सर्वोपायैर्मघवन्सन्नियच्छ संवर्तं वा पार्थिवं वा मरुत्तम् 007c
इन्द्र उवाच 008
एहि गच्छ प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते 008a
अयं वै त्वा याजयिता बृहस्पतिस्तथाऽमरं चैव करिष्यतीति 008c
अग्निरुवाच 009
अयं गच्छामि तव शक्राद्य दूतो बृहस्पतिं परिदातुं मरुत्ते 009a
वाचं सत्यां पुरुहूतस्य कर्तुं बृहस्पतेश्चापचितिं चिकीर्षुः 009c
व्यास उवाच 010
ततः प्रायाद्धूमकेतुर्महात्मा वनस्पतीन्वीरुधश्चावमृद्नन् 010a
कामाद्धिमान्ते परिवर्तमानः काष्ठातिगो मातरिश्वेव नर्दन् 010c
मरुत्त उवाच 011
आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् 011a
आसनं सलिलं पाद्यं गां चोपानय वै मुने 011c
अग्निरुवाच 012
आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ 012a
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् 012c
मरुत्त उवाच 013
कच्चिच्छ्रीमान्देवराजः सुखी च कच्चिच्चास्मान्प्रीयते धूमकेतो 013a
कच्चिद्देवाश्चास्य वशे यथावत्तद्ब्रूहि त्वं मम कार्त्स्न्येन देव 013c
अग्निरुवाच 014
शक्रो भृशं सुसुखी पार्थिवेन्द्र प्रीतिं चेच्छत्यजरां वै त्वया सः 014a
देवाश्च सर्वे वशगास्तस्य राजन्सन्देशं त्वं शृणु मे देवराज्ञः 014c
यदर्थं मां प्राहिणोत्त्वत्सकाशं बृहस्पतिं परिदातुं मरुत्ते 015a
अयं गुरुर्याजयिता नृप त्वां मर्त्यं सन्तममरं त्वां करोतु 015c
मरुत्त उवाच 016
संवर्तोऽयं याजयिता द्विजो मे बृहस्पतेरञ्जलिरेष तस्य 016a
नासौ देवं याजयित्वा महेन्द्रं मर्त्यं सन्तं याजयन्नद्य शोभेत् 016c
अग्निरुवाच 017
ये वै लोका देवलोके महान्तः सम्प्राप्स्यसे तान्देवराजप्रसादात् 017a
त्वां चेदसौ याजयेद्वै बृहस्पतिर्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः 017c
तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः 018a
ते ते जिता देवराज्यं च कृत्स्नं बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र 018c
संवर्त उवाच 019
माऽस्मानेवं त्वं पुनरागाः कथञ्चिद्बृहस्पतिं परिदातुं मरुत्ते 019a
मा त्वां धक्ष्ये चक्षुषा दारुणेन सङ्क्रुद्धोऽहं पावक तन्निबोध 019c
व्यास उवाच 020
ततो देवानगमद्धूमकेतुर्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत् 020a
तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः सन्निधौ हव्यवाहम् 020c
यत्त्वं गतः प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते 021a
तत्किं प्राह स नृपो यक्ष्यमाणः कच्चिद्वचः प्रतिगृह्णाति तच्च 021c
अग्निरुवाच 022
न ते वाचं रोचयते मरुत्तो बृहस्पतेरञ्जलिं प्राहिणोत्सः 022a
संवर्तो मां याजयितेत्यभीक्ष्णं पुनः पुनः स मया प्रोच्यमानः 022c
उवाचेदं मानुषा ये च दिव्याः प्रजापतेर्ये च लोका महान्तः 023a
तांश्चेल्लभेयं संविदं तेन कृत्वा तथाऽपि नेच्छेयमिति प्रतीतः 023c
इन्द्र उवाच 024
पुनर्भवान्पार्थिवं तं समेत्य वाक्यं मदीयं प्रापय स्वार्थयुक्तम् 024a
पुनर्यद्युक्तो न करिष्यते वचस्ततो वज्रं सम्प्रहर्ताऽस्मि तस्मै 024c
अग्निरुवाच 025
गन्धर्वराड्यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम् 025a
संरब्धो मामब्रवीत्तीक्ष्णरोषः संवर्तो वाक्यं चरितब्रह्मचर्यः 025c
यद्यागच्छेः पुनरेवं कथञ्चिद्बृहस्पतिं परिदातुं मरुत्ते 026a
दहेयं त्वां चक्षुषा दारुणेन सङ्क्रुद्ध इत्येतदवैहि शक्र 026c
इन्द्र उवाच 027
त्वमेवान्यान्दहसे जातवेदो न हि त्वदन्यो विद्यते भस्मकर्ता 027a
त्वत्संस्पर्शात्सर्वलोको बिभेत्यश्रद्धेयं वदसे हव्यवाह 027c
अग्निरुवाच 028
दिवं देवेन्द्र पृथिवीं चैव सर्वां संवेष्टयेस्त्वं स्वबलेनैव शक्र 028a
एवंविधस्येह सतस्तवासौ कथं वृत्रस्त्रिदिवं प्राग्जहार 028c
इन्द्र उवाच 029
न चण्डिका जङ्गमा नो करेणुर्न वारिसोमं प्रपिबामि वह्ने 029a
न दुर्बले वै विसृजामि वज्रं को मेऽसुखाय प्रहरेन्मनुष्यः 029c
प्रव्राजयेयं कालकेयान्पृथिव्यामपाकर्षं दानवानन्तरिक्षात् 030a
दिवः प्रह्रादमवसानमानयं को मेऽसुखाय प्रहरेत मर्त्यः 030c
अग्निरुवाच 031
यत्र शर्यातिं च्यवनो याजयिष्यन्सहाश्विभ्यां सोममगृह्णदेकः 031a
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ताच्छर्यातियज्ञं स्मर तं महेन्द्र 031c
वज्रं गृहीत्वा च पुरन्दर त्वं सम्प्राहार्षीश्च्यवनस्यातिघोरम् 032a
स ते विप्रः सह वज्रेण बाहुमपागृह्णात्तपसा जातमन्युः 032c
ततो रोषात्सर्वतो घोररूपं सपत्नं ते जनयामास भूयः 033a
मदं नामासुरं विश्वरूपं यं त्वं दृष्ट्वा चक्षुषी सन्न्यमीलः 033c
हनुरेका जगतीस्था तथैका दिवं गता महतो दानवस्य 034a
सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव 034c
वृत्ताः स्थूला रजतस्तम्भवर्णा दंष्ट्राश्चतस्रो द्वे शते योजनानाम् 035a
स त्वां दन्तान्विदशन्नभ्यधावज्जिघांसया शूलमुद्यम्य घोरम् 035c
अपश्यस्त्वं तं तदा घोररूपं सर्वे त्वन्ये ददृशुर्दर्शनीयम् 036a
यस्माद्भीतः प्राञ्जलिस्त्वं महर्षिमागच्छेथाः शरणं दानवघ्न 036c
क्षत्रादेवं ब्रह्मबलं गरीयो न ब्रह्मतः किञ्चिदन्यद्गरीयः 037a
सोऽहं जानन्ब्रह्मतेजो यथावन्न संवर्तं गन्तुमिच्छामि शक्र 037c