संवर्त उवाच 001
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः 001a
तप्यते यत्र भगवांस्तपो नित्यमुमापतिः 001c
वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च 002a
गुहासु शैलराजस्य यथाकामं यथासुखम् 002c
उमासहायो भगवान्यत्र नित्यं महेश्वरः 003a
आस्ते शूली महातेजा नानाभूतगणावृतः 003c
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा 004a
यमश्च वरुणश्चैव कुबेरश्च सहानुगः 004c
भूतानि च पिशाचाश्च नासत्यावश्विनावपि 005a
गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा 005c
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः 006a
उपासन्ते महात्मानं बहुरूपमुमापतिम् 006c
रमते भगवांस्तत्र कुबेरानुचरैः सह 007a
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते 007c
श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः 007e
न रूपं दृश्यते तस्य संस्थानं वा कथञ्चन 008a
निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः 008c
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः 009a
न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप 009c
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर 010a
धातवो जातरूपस्य रश्मयः सवितुर्यथा 010c
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः 011a
चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः 011c
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे 012a
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे 012c
कपर्दिने करालाय हर्यक्ष्णे वरदाय च 013a
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च 013c
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च 014a
क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च 014c
हरिकेशाय मुण्डाय कृशायोत्तारणाय च 015a
भास्कराय सुतीर्थाय देवदेवाय रंहसे 015c
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे 016a
गिरिशाय प्रशान्ताय यतये चीरवाससे 016c
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च 017a
मृगव्याधाय महते धन्विनेऽथ भवाय च 017c
वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे 018a
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् 018c
पशूनां पतये चैव भूतानां पतये तथा 019a
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च 019c
स्रुवहस्ताय पतये धन्विने भार्गवाय च 020a
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह 020c
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च 021a
महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते 021c
तथा शुक्राधिपतये पृथवे कृत्तिवाससे 022a
कपालमालिने नित्यं सुवर्णमुकुटाय च 022c
महादेवाय कृष्णाय त्र्यम्बकायानघाय च 023a
क्रोधनाय नृशंसाय मृदवे बाहुशालिने 023c
दण्डिने तप्ततपसे तथैव क्रूरकर्मणे 024a
सहस्रशिरसे चैव सहस्रचरणाय च 024c
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे 024e
पिनाकिनं महादेवं महायोगिनमव्ययम् 025a
त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् 025c
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् 026a
प्रभवं सर्वभूतानां धारणं धरणीधरम् 026c
ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम् 027a
उमापतिं पशुपतिं विश्वरूपं महेश्वरम् 027c
विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम् 028a
उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् 028c
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम् 029a
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् 029c
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् 030a
शरण्यं शरणं याहि महादेवं चतुर्मुखम् 030c
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे 031a
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि 031c
सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः 031e
व्यास उवाच 032
इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः 032a
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् 032c
सौवर्णानि च भाण्डानि सञ्चक्रुस्तत्र शिल्पिनः 032e
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः 033a
समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम् 033c
स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् 034a
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति 034c
तं श्रुत्वा भृशसन्तप्तं देवराजो बृहस्पतिम् 035a
अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा 035c