संवर्त उवाच 001
कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते 001a
एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम 001c
सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः 002a
मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति 002c
मरुत्त उवाच 003
नारदेन भवान्मह्यमाख्यातो ह्यटता पथि 003a
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा 003c
संवर्त उवाच 004
सत्यमेतद्भवानाह स मां जानाति सत्रिणम् 004a
कथयस्वैतदेकं मे क्व नु सम्प्रति नारदः 004c
मरुत्त उवाच 005
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः 005a
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् 005c
व्यास उवाच 006
श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परया मुदा 006a
एतावदहमप्येनं कुर्यामिति तदाऽब्रवीत् 006c
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव 007a
रूक्षया ब्राह्मणो राजन्पुनः पुनरथाब्रवीत् 007c
वातप्रधानेन मया स्वचित्तवशवर्तिना 008a
एवं विकृतरूपेण कथं याजितुमिच्छसि 008c
भ्राता मम समर्थश्च वासवेन च सत्कृतः 009a
वर्तते याजने चैव तेन कर्माणि कारय 009c
गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः 010a
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् 010c
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् 011a
याजयेयं कथञ्चिद्वै स हि पूज्यतमो मम 011c
स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज 012a
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि 012c
मरुत्त उवाच 013
बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु 013a
न मां कामयते याज्यमसौ वासववारितः 013c
अमरं याज्यमासाद्य मामृषे मा स्म मानुषम् 014a
याजयेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम् 014c
स्पर्धते च मया विप्र सदा वै स हि पार्थिवः 015a
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा 015c
स मामभिगतं प्रेम्णा याज्यवन्न बुभूषति 016a
देवराजमुपाश्रित्य तद्विद्धि मुनिपुङ्गव 016c
सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम् 017a
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः 017c
न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् 018a
प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति 018c
संवर्त उवाच 019
चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् 019a
यदि सर्वानभिप्रायान्कर्ताऽसि मम पार्थिव 019c
याज्यमानं मया हि त्वां बृहस्पतिपुरन्दरौ 020a
द्विषेतां समभिक्रुद्धावेतदेकं समर्थय 020c
स्थैर्यमत्र कथं ते स्यात्स त्वं निःसंशयं कुरु 021a
कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम् 021c
मरुत्त उवाच 022
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः 022a
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि 022c
मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित् 023a
सम्यग्ज्ञाने वैषये वा त्यजेयं सङ्गतं यदि 023c
संवर्त उवाच 024
आविक्षित शुभा बुद्धिर्धीयतां तव कर्मसु 024a
याजनं हि ममाप्येवं वर्तते त्वयि पार्थिव 024c
संविधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम् 025a
येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि 025c
न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः 026a
विप्रियं तु चिकीर्षामि भ्रातुश्चेन्द्रस्य चोभयोः 026c
गमयिष्यामि चेन्द्रेण समतामपि ते ध्रुवम् 027a
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते 027c