व्यास उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
बृहस्पतेश्च संवादं मरुत्तस्य च भारत 001c
देवराजस्य समयं कृतमाङ्गिरसेन ह 002a
श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा 002c
सङ्कल्प्य मनसा यज्ञं करन्धमसुतात्मजः 003a
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् 003c
भगवन्यन्मया पूर्वमभिगम्य तपोधन 004a
कृतोऽभिसन्धिर्यज्ञाय भवतो वचनाद्गुरो 004c
तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे 005a
याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च 005c
बृहस्पतिरुवाच 006
न कामये याजयितुं त्वामहं पृथिवीपते 006a
वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे 006c
मरुत्त उवाच 007
पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् 007a
न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम् 007c
बृहस्पतिरुवाच 008
अमर्त्यं याजयित्वाऽहं याजयिष्ये न मानुषम् 008a
मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् 008c
न त्वां याजयिताऽस्म्यद्य वृणु त्वं यमिहेच्छसि 009a
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति 009c
व्यास उवाच 010
एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् 010a
प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम् 010c
देवर्षिणा समागम्य नारदेन स पार्थिवः 011a
विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् 011c
राजर्षे नातिहृष्टोऽसि कच्चित्क्षेमं तवानघ 012a
क्व गतोऽसि कुतो वेदमप्रीतिस्थानमागतम् 012c
श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ 013a
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप 013c
एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा 014a
विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत् 014c
गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् 015a
यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत 015c
प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये 016a
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद 016c
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह 017a
आविक्षितं महाराज वाचा सञ्जीवयन्निव 017c
राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः 018a
चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः 018c
तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः 019a
प्रसन्नस्त्वां महाराज संवर्तो याजयिष्यति 019c
मरुत्त उवाच 020
सञ्जीवितोऽहं भवता वाक्येनानेन नारद 020a
पश्येयं क्व नु संवर्तं शंस मे वदतां वर 020c
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् 021a
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे 021c
नारद उवाच 022
उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् 022a
वाराणसीं तु नगरीमभीक्ष्णमुपसेवते 022c
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् 023a
तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते 023c
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् 024a
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः 024c
पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह 025a
ब्रूयास्त्वं नारदेनेति सन्तप्त इव शत्रुहन् 025c
स चेत्त्वामनुयुञ्जीत ममाभिगमनेप्सया 026a
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया 026c
व्यास उवाच 027
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् 027a
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् 027c
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः 028a
कुणपं स्थापयामास नारदस्य वचः स्मरन् 028c
यौगपद्येन विप्रश्च स पुरीद्वारमाविशत् 029a
ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत 029c
स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् 030a
आविक्षितो महीपालः संवर्तमुपशिक्षितुम् 030c
स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च 031a
श्लेष्मणा चापि राजानं ष्ठीवनैश्च समाकिरत् 031c
स तथा बाध्यमानोऽपि संवर्तेन महीपतिः 032a
अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन् 032c
ततो निवृत्य संवर्तः परिश्रान्त उपाविशत् 033a
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् 033c