युधिष्ठिर उवाच 001
कथं वीर्यः समभवत्स राजा वदतां वरः 001a
कथं च जातरूपेण समयुज्यत स द्विज 001c
क्व च तत्साम्प्रतं द्रव्यं भगवन्नवतिष्ठते 002a
कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन 002c
व्यास उवाच 003
असुराश्चैव देवाश्च दक्षस्याऽऽसन्प्रजापतेः 003a
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् 003c
तथैवाऽऽङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः 004a
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः 004c
तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम् 005a
बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः 005c
स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत 006a
अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत् 006c
वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च 007a
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् 007c
पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् 007e
याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करन्धमः 008a
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च 008c
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः 008e
वाहनं यस्य योधाश्च द्रव्याणि विविधानि च 009a
ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः 009c
स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः 010a
सञ्जीव्य कालमिष्टं च सशरीरो दिवं गतः 010c
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् 011a
अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम् 011c
विक्रमेण गुणैश्चैव पितेवाऽऽसीत्स पार्थिवः 011e
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् 012a
पुत्रस्तमनुरक्ताऽभूत्पृथिवी सागराम्बरा 012c
स्पर्धते सततं स स्म देवराजेन पार्थिवः 013a
वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन 013c
शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः 014a
यतमानोऽपि यं शक्रो न विशेषयति स्म ह 014c
सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् 015a
उवाचेदं वचो देवैः सहितो हरिवाहनः 015c
बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन 016a
दैवं कर्माथ वा पित्र्यं कर्ताऽसि मम चेत्प्रियम् 016c
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते 017a
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः 017c
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् 018a
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया 018c
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् 019a
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् 019c
एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः 020a
मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत् 020c
त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः 021a
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च 021c
त्वमाजहर्थ देवानामेको वीर श्रियं पराम् 022a
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन 022c
पौरोहित्यं कथं कृत्वा तव देवगणेश्वर 023a
याजयेयमहं मर्त्यं मरुत्तं पाकशासन 023c
समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित् 024a
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम 024c
हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी 025a
भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि 025c
बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः 026a
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा 026c